SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुच्चय भाग - २, श्लोक ५७, जैनदर्शन - चनरचनामात्रमेव, विरोधस्य G - 30 प्रतीयमानयोः सत्त्वासत्त्वयोरसंभवात् तस्यानुपलम्भलक्षणत्वात्, वन्ध्यागर्भे स्तनन्धयवत् । न च स्वरूपादिना वस्तुनः सत्त्वे तदैव पररूपा - दिभिरसत्त्वस्यानुपलम्भोऽस्ति, येन सहानवस्थानलक्षणो विरोधः स्यात्, शीतोष्णवत् । परस्परपरिहारस्थितिलक्षणस्तु विरोध एकत्राम्रफलादौ रूपरसयोरिव संभवतोरेव सदसत्त्वयोः स्यात्, न पुनरसंभवतोः संभवदसंभवतोर्वा । एतेन वध्यघातकभावविरोधोऽपि फणिनकुलयोर्बलवदबलवतोः प्रतीतः सत्त्वासत्त्वयोरशङ्कनीय एव, तयोः समानबलत्वात्, मयूराण्डरसे नानावर्णवत् । किं च अयं विरोधः किं स्वरूपमात्रसद्भावकृतः १ उतैककालासंभवेन २ आहोस्विदेकद्रव्यायोगेन ३ किमेककालैकद्रव्याभावतः ४ उतैककालैकद्रव्यैकप्रदेशासंभवात् ५ । तत्राद्यो न युक्तः, यतो न हि शीतस्पर्शोऽनपेक्षितान्यनिमित्तः स्वात्मसद्भाव एवोष्णस्पर्शेन सह विरुध्यते, उष्णस्पर्शो वेतरेण, अन्यथा त्रैलोक्येऽप्यभावः स्यादनयोरिति । नापि द्वितीयः, एकस्मिन्नपि काले पृथक् पृथग्द्वयोरप्युपलम्भात् । नापि तृतीयः, एकस्मिन्नपि लोहभाजने रात्रौ शीतस्पर्शो दिवा चोष्णस्पर्शः समुपलभ्यते, न च तत्र विरोधः नापि तुरीयः, धूपकडुच्छकादौ द्वयोरप्युपलम्भात् । पञ्चमोऽपि न घटते, यत एकस्मिन्नेव तप्तलोहभाजने स्पर्शापेक्षया यत्रैवोष्णत्वं तत्रैव प्रदेशे रूपापेक्षया शीतत्वम् । यदि हि रूपापेक्षयाप्युष्णत्वं स्यात्, तर्हि जननयनदहनप्रसङ्गः । नन्वेकस्य युगपदुभयरूपता कथं घटत इति चेत् ? न यतो यथैकस्यैव पुरुषस्यापेक्षावशाल्लघुत्वगुरुत्वबालत्व'-" वृद्धत्वयुवत्वपुत्रत्वपितृत्वगुरुत्वशिष्यत्वादीनि परस्परविरुद्धान्यपि युगपदविरुद्धानि तथा सत्त्वासत्त्वादीन्यपि । तस्मान्न सर्वथा भावानां विरोधो घटते कथञ्चिद्विरोधस्तु सर्वभावेषु तुल्यो न बाधकः १ । २४३/८६६ व्याख्या का भावानुवाद : समाधान: (परवादि ने वस्तु की अनेकान्तात्मकता में जो विरोधादिदोष दिये थे, उसके खंडन की प्रक्रिया अब शुरु होती है । उसमें प्रथम दिये गये विरोध दोष का परिहार किया जाता है ।) Jain Education International (१) परवादियों के द्वारा "जो वस्तु सत् हो वही वस्तु असत् किस तरह से हो ?" इत्यादि कथन से अनेकान्तात्मकता में जो विरोध दोष दिया था, वह मात्र वचनरचना में ही रमणीय है । परमार्थ से बकवास है। (यह विरोधदोष की भिन्न-भिन्न व्याख्यायें करके उसमें से एक भी विरोधदोष की व्याख्या हमारी वस्तु की अनेकान्तात्मकता में बाधक नहीं है, वह क्रमश: बताया जाता है ।) (१) जब वस्तु में सत्त्व और असत्त्व दोनो प्रतीत होते हो, तब उसमें विरोध किस तरह से हो सकेगा ? (G-30-31) - तु० पा० प्र० प० । For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy