________________
१३८/७६१
षड्दर्शन समुञ्चय भाग - २, श्लोक - ५१, जैनदर्शन
श्लोकार्थ : आश्रव के निरोध को संवर कहा जाता है । जीव और कर्म को एकदूसरे को मिल जानादोनो का परस्परअनुप्रवेश स्वरुप संबंध होना उसे बंध कहा जाता है।
व्याख्या-तेषां-मिथ्यात्वाविरतिप्रमादकषाययोगानामास्रवाणां"-3 सम्यग्दर्शन-विरतिप्रमादपरिहार-क्षमादिगुप्तित्रयधर्मानुप्रेक्षाभिनिरोधो-4-निवारणं स्थगनं संवरः-5, पर्यायकथनेन व्याख्या । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स देशसर्वभेदावेधा । तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः । शेषकाले चरणप्रतिपत्तेरारभ्य देशसंवरः ।। अथ बन्धतत्त्वमाह
“बन्धो जीवस्य कर्मणः” इत्यादि । तत्र बन्धनं बन्धः-परस्पराश्लेषो जीवप्रदेशपुद्गलानां क्षीरनीरवत्, अथवा बध्यते येनात्मा पारतन्त्र्यमापद्यते ज्ञानावरणादिना स बन्धः-पुद्गलपरिणामः । ननु जीवकर्मणोःसम्बन्धः किं गोष्ठामाहिलपरिकल्पितकञ्चुकिकञ्चकसंयोगकल्प उतान्यः कश्चिदित्याशङ्क्याह “द्वयोरपि" कर्मवर्गणायोग्यस्कन्धानां जीवस्य चान्योन्यानुगमात्मा-अन्योन्यानुगतिस्वरूपः परस्परानुप्रवेशरुप इत्यर्थः । अयमत्र भावःवहन्ययस्पिण्डसम्बन्धवत् क्षीरोदकसम्पर्कवद्वा जीवकर्मणोमिथोऽनुप्रवेशात्मक एव सम्बन्धो बन्धो बोद्धव्यो, न पुनः कञ्चुचिकञ्चकसंयोगकल्पोऽन्यो वेति । अत्राह-कथममूर्तस्यात्मनो हस्ताद्यसंभवे सत्यादानशक्तिविरहात्कर्मग्रहणमुच्यत इति चेत् ? उच्यते, इयमेव तावदस्थानारेकाप्रक्रिया भवतोऽनभिज्ञतां ज्ञापयति, यतः केनामूर्तताभ्युपेतात्मनः ? कर्मजीवसम्बन्धस्यानादित्वादेकत्वपरिणामे सति क्षीरोदकवन्मूर्त एव कर्मग्रहणे व्याप्रियते, नच हस्तादिव्यापारादेयं कर्म, किंतु पौगलमपि सदध्यवसायविशेषाद्रागद्वेष-मोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुद्गलजालश्लेषणमादानं स्नेहाभ्यक्तवपुषो रजोलगनवदिति । प्रतिप्रदेशानन्तपरमाणुसंश्लेषाज्जीवस्य कर्मणा सह लोलीभावात्कथंचिन्मूर्त्तत्वमपि संसारावस्थायामभ्युपगम्यत एव स्याद्वादवादिभिरिति । स च प्रशस्ताप्रशस्तभेदाद् द्वेधा । प्रकृतिस्थित्यनुभागप्रदेशभेदाञ्च-6 चतुर्विधा । प्रकृतिःस्वभावो यथा ज्ञानावरणं ज्ञानाच्छादनस्वभावमित्यादि । स्थितिः-अध्यवसायकृतः कालविभागः । अनुभागो-रसः । प्रदेशःकर्मदलसंचय इति । पुनरपि मूलप्रकृतिभेदादष्टधा -7 ज्ञानावरणादिकः । -उत्तरप्रकृतिभेदादष्टपञ्चाशदधिकशतभेदः । सोऽपि तीव्रतीव्रतरमन्दमन्दतरादिभेदादनेकविध इत्यादि कर्मग्रन्थादवसेयम् ।
(F-3-4-5-6-7-8) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org