________________
१३२ / ७५५
षड्दर्शन समुच्चय भाग - २, श्लोक - ५०, जैनदर्शन
कार्य का कारण बीज है, वैसे सुख - दुःखरुप कार्य के कारण पुण्य-पाप मानने चाहिए ।
अथ नीलादिकं मूर्तं वस्तु यथा स्वप्रतिभासिज्ञानस्यामूर्तस्य कारणं भवति, तथान्नस्रक्चन्दनाङ्गनादिकं मूर्तं दृश्यमानमेव सुखस्यामूर्तस्य कारणं भविष्यति, अहिविषकण्टकादिकं च दुःखस्य । ततः किमदृष्टाभ्यां पुण्यपापाभ्यां परिकल्पिताभ्यां प्रयोजनमिति चेत् ? तदयुक्तं, व्यभिचारात्, तथाहि-तुल्यान्नस्रगादिसाधनयोरपि द्वयोः पुरुषयोः सुखदुःखलक्षणे फले महान्भेदो दृश्यते । तुल्येऽपि ह्यन्नादिके भुक्ते कस्याप्याह्लादो दृश्यते, अपरस्य तु रोगाद्युत्पत्तिः, अयं च फलभेदोऽवश्यमेव सकारणः, निःकारणत्वे नित्यं सत्त्वासत्त्वप्रसङ्गात् यच्च तत्कारणं तददृष्टं पुण्यपापरूपं कर्मेति । तदुक्तम्- “जो तुलसाहणाणं फले विसेमो न सो विणा हेऊं । कज्जत्तणओ गोयम घडोव्व हेउ अ सो कम्मं ।।9।। ” इति । अथवा कारणानुमानात्कार्यानुमानाच्चैवं पुण्यपापे गम्येते 1 तत्र कारणानुमानमिदम्दानादिशुभक्रियाणां हिंसाद्यशुभक्रियाणां चास्ति फलभूतं कार्यं, कारणत्वात्, कृष्यादि - क्रियावत् । यच्चासां फलभूतं कार्यं तत्पुण्यं पापं चावगन्तव्यं, यथा कृष्यादिक्रियाणां शालियवगोधूमादिकम् 1 ननु यथा कृष्यादिक्रिया दृष्टशाल्यादिफलमात्रेणैवावसितप्रयोजना भवन्ति, तथा दानादिकाः पशुहिंसादिकाश्च सर्वा अपि क्रियाः श्लाघादिना मांसभक्षणादिना च दृष्टफलमात्रेणैवावसितप्रयोजना भवन्तु किमदृष्टधर्माधर्मफलकल्पनेन ? I लोको हि प्रायेण सर्वोऽपि दृष्टमात्रफलास्वेव कृषिवाणिज्यहिंसादिक्रियासु प्रवर्तते, अदृष्टफलासु पुनर्दानादिक्रियास्वत्यल्प एक लोकः प्रवर्तते न बहुः । ततश्च कृषिहिंसाद्यशुभक्रियाणामदृष्टफलाभावाद्दानादिशुभक्रियाणामप्यदृष्टफलाभावो भविष्यतीति चेत् ? न यत एव कृष्याद्यशुभक्रियासु दृष्टफलासु बहवः प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिशुभक्रियास्वत्यल्प एव लोकः प्रवर्तते, तत एव कृषिहिंसादिका दृष्टफलाः क्रिया अदृष्टपापरूपफला अपि प्रतिपत्तव्याः अनन्तसंसारिजीवसत्तान्यथानुपपत्तेः 1 ते ि कृषिहिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्ध्वा अनन्तसंसारं परिभ्रमन्तोऽनन्ता इह तिष्ठन्ति । यदि हि कृषिहिंसाद्यशुभक्रियाणामदृष्टं पापरूपं फलं नाभ्युपगम्यते तदा तत्कर्तारोऽदृष्टफलाभावान्मरणानन्तरमेव सर्वेऽप्ययत्नेन मुक्तिं गच्छेयुः । ततः प्रायः शून्य एव संसारः स्यात् ततश्च संसारे दुःखी कोऽपि नोपलभ्येत । दानादिशुभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव केवलाः सर्वत्रोपलभ्येरन् । दुःखिनश्चात्र बहवो दृश्यन्ते सुखिनस्त्वल्पाः तेन ज्ञायते कृषिवाणिज्यहिंसादिक्रियानिबन्धनोऽदृष्टपापरूपफलविपाको दुःखिनां, इतरेषां दानादि-क्रियाहेतुकोऽदृष्ट
तु
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org