________________
१३०/७५३
षड्दर्शन समुच्चय भाग - २, श्लोक - ५०, जैनदर्शन
(मू. श्लो.) पापं तद्विपरीतं तु, मिथ्यात्वाद्यास्तु हेतवः ।
__ये बन्धस्य स विज्ञेय, आस्रवो जिनशासने ।।५०।। श्लोकार्थ : पुण्य से विपरीत अप्रशस्तकर्म पुद्गल को पाप कहा जाता है और जैनशासन में कर्मबंध के कारण मिथ्यात्वआदि को आश्रव कहा जाता है वह जानना।
व्याख्या-तुर्भिन्नक्रमे, पापं तु तस्मात्पुण्याद्विपरीतम्-नरकादिफलनिर्वर्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः । इह च वक्ष्यमाणबन्धतत्त्वान्तर्भूतयोरपि पुण्यपापयोः पृथग्निर्देशः पुण्यपापविषयनानाविधपरमतभेदनिरासार्थः । परमतानि चामूनिकेषांचित्तैर्थिकानामयं प्रवादः पुण्यमेवैकमस्ति, न पापम् । अन्ये त्वाहुः पापमेवैकमस्ति न पुण्यम् । अपरे तु वदन्ति उभयमप्यन्योन्यानुविद्धस्वरूपं मेचकमणिकल्पं सन्मिश्रसुखदुःखाख्यफलहेतुः साधारणं पुण्यपापाख्यमेकं वस्त्विति । अन्ये पुनराहुः । मूलतः कर्मैव नास्ति स्वभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्च इति । तदेतानि निखिलानि मतानि न सम्यगिति मन्तव्यानि यतः सुखदुःखे विविक्ते एवोभे सर्वेरनुभूयेते, ततस्तत्कारणभूते पुण्यपापे अपि स्वतन्त्रे एवोभे अङ्गीकर्तव्ये, न पुनरेकतरं तवयं वा तन्मिश्रमिति । अथ कर्माभाववादिनो नास्तिका वेदान्तिनश्च वदन्ति, ननु पुण्यपापे नभोम्भोजनिभे एव मन्तव्ये, न पुनः सद्भुते, कुतः पुनस्तयोः फलभोगस्थाने स्वर्गनरकाविति चेत् ?, उच्यते, पुण्यपापयोरभावे सुखदुःखयोर्निर्हेतुकत्वादनुत्पाद एव स्यात्, स च प्रत्यक्षविरुद्धः, तथाहि-मनुजत्वे समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभवन्तो, अपरे पुनस्तत्प्रेष्यभावमाबिभ्राणाः, एके च लक्षकुक्षिभरयः, अन्ये तु स्वोदरदरीपूरणेऽप्यनिपुणाः, एके देवा इव निरन्तरं सरसविलाससुखशालिनः, इतरे पुनर्नारका इवोन्निद्रदुःखविद्राणचित्तवृत्तय इति । अतोऽनुभूयमानसुखदुःखनिबन्धने पुण्यपापे स्वीकर्तव्ये । तदङ्गीकरणे च विशिष्टयोस्तत्फलयो गस्थाने स्वर्गनरकावपि प्रतिपत्तव्यौ, अन्यथार्धजरतीयन्यायप्रसङ्गः स्यात् । प्रयोगश्चात्र सुखदुःखे कारणपूर्वके, कार्यत्वात्, अङ्कुरवत् । ये च तयोः कारणे, ते पुण्यपापे मन्तव्ये, यथाङ्कुरस्य बीजम् ।
व्याख्या का भावानुवाद : श्लोक में "तु" भिन्नक्रम में है। वैसे ही पाप पुण्यकर्म से विपरीत है। अर्थात् नरकादि अप्रशस्तफल
अ. “तद्यथा-अर्धंजरत्याः कामयन्तेअर्धनेति ।"-पातं.महाभा०४/१/७८ ।। “मुखंन कामयते अङ्गान्तरंतु कामयन्ते जरत्याः
।"-महाभा-प्रतीप । “अर्धं मुखमात्रं जरत्याः वृद्धायाः कामयते नाङ्गानीति सोऽयमर्धजरतीन्यायः ।।"-ब्रह्मसू० शां० भा० रत्नप्रभा १/२/८ ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org