________________
षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
११९/७४२
च सरित्तटाकहदसमुद्रेषु वेगवाहित्वे सति मत्स्यस्य स्वयमेव संजातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति, दण्डादिवत्कुम्भकारे कर्तरि मृदः परिणामिन्याः, नभोवद्वा नभश्चरतां नभश्चराणामपेक्षाकारणं, न पुनस्तज्जलं गतेः कारणभावं बिभ्राणमगच्छन्तमपि मत्स्यं बलात्प्रेर्य गमयति, क्षितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनीपद्यते, न पुनरतिष्ठद्व्यं बलादवनिरवस्थापयति । व्योम वावगाहमानस्य स्वत एव द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति, न पुनरनवगाहमानमवगाहयति स्वावष्टम्भात् । स्वयमेव कृषीवलानां कृष्यारम्भमनुतिष्ठतां वर्षमपेक्षाकारणं दृष्टं, न च 'नृनऽकृर्वतस्तांस्तदर्थमारम्भयद्वर्षवारि प्रतीतम्, प्रावृषि वा नवाम्भोधरध्वनिश्रवणनिमित्तोपाधीयमानगर्भा स्वत एव प्रसूते बलाका, नचाप्रसूयमानां तामभिनवजलधरनिनादः प्रसभं प्रसावयति । प्रतिबुध्य वा पुरुषः प्रतिबोधनिमित्तामवद्याद्विरतिमातिष्ठमानो दृष्टो, न च पुमांसमविरतं विरमयति बलात्प्रतिबोधः । न च गत्युपकारोऽवगाहलक्षणाकाशस्योपपद्यते, किं तर्हि ? धर्मस्यैवोपकारः स दृष्टः । स्थित्युपकारश्चाधर्मस्य नावगाहलक्षणस्य व्योम्नः । अवश्यमेव हि द्रव्यस्य द्रव्यान्तरादसाधारणः कश्चिद्गुणोऽभ्युपेयः । द्रव्यान्तरत्वं च युक्तेरागमाद्वा निश्चयम् । युक्तिरनन्तरमेवाग्रतो वक्ष्यते । अआगमस्त्वयम्“कइणं भंते ! दव्वा पण्णत्ता ? गोयमा ! छ दव्वा पण्णत्ता । तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए ।” ननु धर्मद्रव्योपकारनिरपेक्षमेव शकुनेरुत्पतनम, अग्नेरूद्मज्वलनं, मरुतश्च तिर्यकपवनं स्वभावादेवानादिकालीनादिति ? उच्यते । प्रतिज्ञामात्रमिदं नार्हन्तं प्रति हेतुदृष्टान्तावनवद्यौ स्तः, स्वाभाविक्या गतेधर्मद्रव्योपकारनिरपेक्षायास्तं प्रत्यसिद्धत्वात्, यतः सर्वेषामेव जीवपुद्गलानामासादितगतिपरिणतीनामुपग्राहकं धर्ममनुरुध्यन्तेऽनेकान्तवादिनः, स्थितिपरिणामभाजां चाधर्मः, आभ्यां च न गतिस्थिती क्रियेते, केवलं साचिव्यमात्रेणोपकारकत्वं, यथा भिक्षा वासयति, कारीषोऽ-ग्निरध्यापयतीति । ननु तवापि लोकालोकव्यापि(तवापि लोकव्यापि)धर्माधर्म-द्रव्यास्तित्ववादिनः संज्ञामात्रमेव “तदुपकारौ गति स्थित्युपग्राहौ” इति [तत्त्वार्थाधिगम० ५, १०] अत्र जागद्यते युक्तिः, अवधत्तां भवान् । गतिस्थिती ये जीवानां पुद्गलानां च ते स्वतःपरिणामाविर्भावात् परिणामिकर्तृनिमित्तकारणत्रयव्यतिरिक्तोदासीनकारणान्तरसापेक्षात्मलाभे, अस्वाभाविकपर्यायत्वे सति कदाचिद्भावात्, उदासीनकारणपानीयापेक्षात्मलाभझषगतिवत् । इति धर्माधर्मयोः सिद्धिः २ । व्याख्या का भावानुवाद : शंका : देशांतर गये हुए देवदत्तादि उदाहरण जो आपने बताये, वे देवदत्तादि यहाँ रहे हुए हमको
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org