________________
१०२/७२५
षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
इसलिए दही को लेके हेतु व्यभिचारि बनता नहीं है।
इसलिए इस अनुसार से पृथ्वी इत्यादि पांच का सचेतनत्व (जीवत्व) सिद्ध होता है। अथवा आप्तपुरुष श्रीतीर्थंकर परमात्मा के निर्दोष वचन के संग्रहरुप आगमवचन से पृथ्वी इत्यादि सभी की सचेतनता सिद्ध हो जाती है।
द्वीन्दियादिषु च कृमिपिपीलिकाभ्रमरमनुष्यजलचरस्थलचरखेचरपश्वादिषु न केषांचित्सात्मकत्वे विगानमिति । ये तु तत्रापि विप्रतिपद्यन्ते तान् प्रतीदमभिधीयते । इन्द्रियेभ्यो व्यतिरिक्त आत्मा, इन्द्रियव्युपरमेऽपि तदुपलब्धार्थानुस्मरणात् । प्रयोगोऽत्र-इह यो यदुपरमे यदुपलब्धानामर्थानामनुस्मर्ता स तेभ्यो व्यतिरिकितः, यथा गवाक्षरुपलब्धानामर्थानां गवाक्षोपरमेऽपि (तदनुस्मर्ता) देवदत्तः । अनुस्मरति चायमा-त्मान्धबधिर-त्वादिकालेऽपीन्द्रियोपलब्धानर्थान् अतः स तेभ्योऽर्थान्तरमिति । अथवेन्द्रियेभ्यो व्यतिरिक्त आत्मा, इन्द्रियव्यापृतावपि कदाचिदनुपयुक्तावस्थायां वस्त्वनुपलम्भात् । प्रयोगश्चात्र-इन्द्रियेभ्यो व्यतिरिक्त आत्मा, तद्व्यापारेऽप्यर्थानुपलम्भात् । इह यो यद्व्यापारेऽपि यैरुपलभ्यानर्थान्नोपलभते स तेभ्यो भिन्नो दृष्टः, यथाऽस्थगित-गवाक्षेऽप्यन्य-मनस्कतयानुपयुक्तोऽपश्यंस्तेभ्यो देवदत्त इति । अथवेदमनुमानम्-समस्तीन्द्रियेभ्यो भिन्नो जीवोऽन्येनोपलभ्यान्येन विकारग्रहणात् । इह योऽन्येनोपलभ्यान्येन विकारं प्रतिपद्यते स तस्माद्भिन्नो दृष्टः, यथा प्रवरप्रासादोपरिपूर्ववातायनेन रमणीमवलोक्यापरवातायनेन समायातायास्तस्याः करादिना कुचस्पर्शादिविकारमुपदर्शयन्देवदत्तः । तथा चायमात्मा चक्षुषाम्लीका-मनन्तं दृष्टा रसनेन हृल्लासला-लास्रवणादिकं विकारं प्रतिपद्यते । तस्मात्तयोः (ताभ्यां) भिन्न इति । अथवेन्द्रियेभ्यो व्यतिरिक्त आत्मा अन्येनोपलभ्यान्येन ग्रहणात् । इह यो घटादिकमन्येनोपलभ्यान्येन गृह्णाति स ताभ्यां भेदवान् दृष्टः, यथा पूर्ववातायनेन घटमुपलभ्यापरवातायनेन गृह्णानस्ताभ्यां देवदत्तः । गृह्णाति च चक्षुषोपलब्धं घटादिकमर्थं हस्तादिना जीवः, ततस्ताभ्यां भिन्न इति । एवमत्रानेकान्यनुमानानि नैकाश्च युक्तयो विशेषावश्यकटीकादिभ्यः स्वयं कर्त्त(वक्त)व्यानीति । प्रोक्तं विस्तरेण प्रथम जीवतत्त्वम् ।। व्याख्या का भावानुवाद :
कृमि, चींटी, भंवरा, मनुष्य, जलचर, स्थलचर और खेचर पशु इत्यादि दोइन्द्रियादि जीवो में सचेतनता मानने में किसीका विवाद नहीं है। परंतु जो लोग दोइन्द्रिय इत्यादि जीवो में सजीवता का निषेध करते है, उनको कुछ कहा जाता है। "इन्द्रियों से अतिरिक्त आत्मा है । क्योंकि इन्द्रियों का व्यापार नष्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org