SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन ९३/ ७१६ प्राग्वज्जीववच्छरीरत्वे सिद्धे सति प्रमाणम् । सचेतना हिमादयः क्वचित्, अप्कायत्वात्, इतरोदकवदिति । तथा वचन चेतनावत्य आपः, खातभूमिस्वाभाविकसंभवात्, दर्दुरवत् । अथवा सचेतना अन्तरिक्षोद्भवा आपः, अभ्रादिविकारे स्वत एव संभूय पातात, मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिष्वल्पेऽल्पो बही बहुर्बहुतरे च बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एव, अल्पबहुबहुतरमिलितमनुष्यशरीरेष्वल्पबहुबहुतरोष्मवत् । प्रयोगश्चायम्-शीतकाले जलेषूष्णस्पर्श उष्णस्पर्शवस्तुप्रभवः, उष्णस्पर्शत्वात्, मनुष्यशरीरोष्णस्पर्शवत् । न च जलेष्वयमुष्णस्पर्शः सहजः, “अप्सु स्पर्शः शीत एव” इति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्फीते निपतति प्रातस्तटाकादेः पश्चिमायां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते, तदा तज्जलानिर्गतो बाष्पसंभारो दृश्यते, सोऽपि जीवहेतुक एव । प्रयोगस्त्वित्थम्-शीतकाले जलेषु बाष्प उष्णस्पर्शवस्तुप्रभवः, बाष्पत्वात्, शीतकाले शीतलजलसिक्तमनुष्यशरीरबाष्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य बाष्पस्य च निमित्तमुष्णस्पर्श वस्तु, तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यं, जलेष्वन्यस्योष्णस्पर्शबाष्पयोनिमित्तस्य वस्तुनोऽभावात् । न च शीतकाल उत्कुरुडिकावकरतलगतोष्णस्पर्शेन तन्मध्यनिर्गतबाष्पेण च प्रकृतहेत्वोर्व्यभिचारः शङ्क्यः, तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्वाभ्युपगमात् । ननु मृतजीवानां शरीराणि कथमुष्णस्पर्शबाष्पयोनिमित्तीभवन्तीति चेत् ? उच्यते, यथाग्निदग्धपाषाणखण्डिकासु जलप्रक्षेपे विध्यातादप्यग्नेरुष्णस्पर्शबाष्पो भवेतां, तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाष्पोष्णस्पर्शयोनिमित्तं सचित्तमचित्तं वा यथासंभवं वक्तव्यम् । इत्थमेव च शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताञ्च य उष्मा संवेद्यते, सोऽपि मनुष्यवपुरुष्मवज्जीवहेतुरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजसशरीररूपाग्नेर्मन्दीभवनात् जलादिषु यः शीतलस्पर्शः, सोऽपि मानुषशरीरशीतलस्पर्शवज्जीवहेतुकोऽभ्युपगमनीयः, तत एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यप्कायाः ।।२।। व्याख्या का भावानुवाद : शंका : पृथ्वी चाहे सजीव हो, परंतु अप्काय (जल) जीव नहीं है। क्योंकि उसमें जीव के लक्षण का अयोग है। जैसे पेशाब (मूत्र) इत्यादि । समाधान : आप का हेतु व्यभिचारी है। क्योंकि जैसे हाथी का शरीर हथिनी के गर्भ में कलल - पानी जैसी प्रवाहि अवस्था में होने पर भी सचेतन होता है। उसी अनुसार से अप्काय (जल) भी सचेतन है। अथवा अण्डे में पक्षी का शरीर रस (प्रवाहि) स्वरुप में होता है, उस समय पक्षी के हाथ, पैर, चांच Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004074
Book TitleShaddarshan Samucchaya Part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashak
Publication Year2012
Total Pages756
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy