________________
२३८
षड्दर्शन समुञ्चय भाग - १, श्लोक - ३३, सांख्यदर्शन
अथ तृतीयोऽधिकारः
तीसरा अधिकार - सांख्य दर्शन ॥ अथादौ सांख्यमतप्रपन्नानां परिज्ञानाय लिङ्गादिकं निगद्यते । त्रिदण्डा एकदण्डा वा कौपीनवसना धातुरक्ताम्बराः शिखावन्तो जटिनः क्षुरमुण्डा मृगचर्मासना द्विजगृहाशनाः पञ्चग्रासीपरा वा द्वादशाक्षरजापिनः परिव्राजकादयः । तद्भक्ता वन्दमाना ॐ नमो नारायणायेति वदन्ति, ते तु नारायणाय नम इति प्राहुः । तेषां च महाभारते बीटेति ख्याता दारवी मुखवस्त्रिका मुखनिःश्वासनिरोधिका भूतानां दयानिमित्तं भवति । यदाहुस्ते “घ्राणदितोऽनुयातेन श्वासेनैकेन जन्तवः हन्यन्ते शतशो ब्रह्मन्नणुमात्राक्षरवादिनाम् ।।१।।” ते च जलजीवदयार्थं स्वयं गलनकं धारयन्ति, भक्तानां चोपदिशन्ति । “षट्त्रिंशदङ्गलायामं विंशत्यङ्गुलविस्तृतम् । दृढं गलनक कुर्याद्भूयो जीवान्विशोधयेत् ।।१।। म्रियन्ते मिष्टतोयेन पूतराः क्षारसंभवाः । क्षारतोयेन तु (चा) परे न कुर्यात्संकरं ततः ।।२ ।। लूतास्यतन्तुगलिते ये बिन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ।।३।।” इति गलनकविचारो मीमांसायाम् । सांख्याः केचिदीश्वरदेवाः अपरे च निरीश्वराः । ये च निरीधरास्तेषां नारायणो देवः । तेषामाचार्या विष्णुप्रतिष्ठाकारकाश्चैतन्यप्रभृतिशब्दैरभिधीयन्ते । तेषां मतवक्तारः कपिलासुरिपञ्चशिखभार्गवोलूकादयः, ततः सांख्याः कापिला इत्यादिनामभिरभिधीयन्ते । तथा कपिलस्य परमर्षिरिति द्वितीयं नाम, तेन तेषां पारमर्षा इत्यपि नाम ज्ञातव्यम् । वाराणस्यां तेषां प्राचुर्यम् । बहवो मासोपवासिका ब्राह्मणा अर्चिार्गविरुद्धधूममार्गानुगामिनः । सांख्यास्त्वचिर्मार्गानुगाः । तत एव ब्राह्मणा वेदप्रिया यज्ञमार्गानुगाः । सांख्यास्तु हिंसाढ्यवेदविरता अध्यात्मवादिनः । ते च स्वमतस्य महिमानमेवमामन्ति । तदुक्तं D'माठरप्रान्ते “हस पिब लल खाद मोद नित्यं भुंक्ष्व च भोगान् यथाभिकामम् । यदि विदितं ते कपिलमतं तत्प्राप्स्यसि मोक्षसौख्यमचिरेण ।।१।।” -शास्त्रान्तरेऽप्युक्तम्-2_ “पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापी मुच्यते नात्र संशयः ।।२।।" ।।३३।। टीकाका भावानुवाद :
अब प्रारंभ में सांख्यमत के अनुयायियों के परिज्ञान के लिए (उनके) लिंग, वेष और आचार को कहा जाता है। तीन या एक दंड को धारण करनेवाले, लंगोट पहननेवाले, लाल-रंगीन वस्त्र पहननेवाले, शिर पे शीखा-चोटी रखनेवाले, जटाधारी, मस्तक पें मुंडन किये गये, मृगचर्म का आसन रखनेवाले, ब्राह्मणोके घर पे भोजन करनेवाले अथवा पाच ग्रास से निर्वाह करनेवाले तथा बारह अक्षरो का जाप करनेवाले
(D-1-2) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org