________________
षड्दर्शन समुञ्चय भाग - १, श्लोक - १
३
च तदीयदर्शनस्य त्रिभुवनपूज्यतामभिदधानः श्रीवर्धमानस्य त्रिभुवनविभोः सुतरां त्रिभुवनपूज्यतां व्यक्तीति पूजातिशयं प्राचीकटत् । तथा जयति रागद्वेषादिशत्रूनिति जिनस्तम् अनेनापायापगमातिशयमुदबीभवत् । तथा स्यात्कथंचित्सर्वदर्शनसंमतसद्भूतवस्त्वंशानां मिथः सापेक्षतया वदनं A-2स्याद्वादः । सदसन्नित्यानित्यसामान्यविशेषाभिलाप्यानभिलाप्योभयात्मानेकान्त-3 इत्यर्थः । ननु कथं सर्वदर्शनानां परस्परविरुद्धभाषिणामभीष्टा वस्त्वंशाः के सद्भूताः संभवेयुः येषां मिथः सापेक्षतया स्याद्वादः सत्प्रवादः स्यादिति चेत् उच्यते । यद्यपि दर्शनानि निजनिजमतभेदेन परस्परं विरोधं भजन्ते तथापि तैरुच्यमानाः सन्ति तेऽपि वस्त्वंशा ये मिथः सापेक्षाः सन्तः समीचीनतामञ्चन्ति । तथाहि । सौगतैरनित्यत्वं, सांख्यैर्नित्यत्वं, नैयायिकैर्वैशेषिकैश्च परस्परविविक्ते नित्यानित्यत्वे सदसत्वे सामान्यविशेषौ च, मीमांसकैः स्याद्-शब्दवर्ज भिन्नाभिन्ने नित्यानित्यत्वे सदसदंशौ सामान्यविशेषौ शब्दस्य नित्यत्वं च, कैश्चित्कालस्वभावनियतिकर्मपुरुषादीनि जगत्कारणानि, शब्दब्रह्मज्ञानाद्वैतवादिभिश्च शब्दब्रह्मज्ञानाद्वैतानि चेत्यादयो ये ये वस्त्वंशाः परैरङ्गीक्रियन्ते, ते सर्वेऽपि सापेक्षाः सन्तः परमार्थसत्यतां प्रतिपद्यन्ते निरपेक्षास्त्वन्योन्येन निरस्यमाना नभोनलिनायन्त इत्यलं विस्तरेण । स्याद्वादस्य देशकः सम्यग्रवक्ता स्याद्वाददेशकस्तम् । अनेन च वचनातिशयमचकथत् । तदेवं चत्वारोऽत्रातिशयाःB-1 शास्त्रकृता साक्षादाचचक्षिरे । तेषां हेतुहेतुमद्भाव एवं भाव्यः-यत एव निःशेषदोषशत्रुजेता, तत एव सर्वज्ञः । यत एव सर्वज्ञस्तत एव सद्भूतार्थवादी । यत एव सद्भूतार्थवादी, तत एव त्रिभुवनाभ्यर्च्य इति । टीकाका भावानुवाद :
सत् अर्थात् सदा विद्यमान अथवा छाद्मस्थिक ज्ञानकी अपेक्षा प्रशस्त ऐसा केवलदर्शन केवलज्ञान जिसको है वह सद्दर्शन । (अर्थात् केवलज्ञान-केवलदर्शनवाला) अथवा प्रशस्त है दर्शन जिनको वह केवलदर्शन तथा केवलदर्शन के पूर्वकाल में अव्यभिचरित रुप में केवलज्ञान है जिनको वह सद्दर्शन । अर्थात् सद्दर्शन पद से सर्वज्ञ तथा सर्वदर्शी ऐसे श्रीवीर परमात्मा को नमस्कार करके, (इस प्रकार "नत्वा" के साथ संबंध करना ।) इस "सद्दर्शन" विशेषण के द्वारा श्रीवर्धमानस्वामी भगवान का ज्ञानातिशय सूचित होता है।
(अब "सद्दर्शन" पद की दूसरे प्रकार से व्युत्पत्ति करके पूजातिशय प्रकट करते है) सद् अर्थात् पूजित अर्थात् सब नरेन्द्रो, असुरेन्द्रो तथा इन्द्रो के द्वारा पूजा किया हुआ दर्शन - जैनदर्शन जिनका वह सद्दर्शन।
___(A-2) - तुलनात्मकपाठः परिशिष्टे द्रष्टव्यः । (A-3)- तुलनात्मकपाठः परिशिष्टे द्रष्टव्यः । (B-1) - तुलनात्मकपाठ: परिशिष्टे द्रष्टव्यः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org