SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ सप्तम उच्छासः ५४५ आसीनां दमयन्ती अद्राक्षमिति सम्बन्धः। 'इत' इति अव्ययं, "सार्वविभक्तिकस्तसिल्" [ ] । किम्भूते धाम्नि ? विविधकुसुमानां-अनेकविधपुष्पाणां या सम्पत् तया सम्पन्नाःसहिताः पुण्याः-पवित्रा ये पादपाः-तरवस्तैः परिकरिता-वलयिता या अङ्गणवापी तस्यां परिसरे चलन्तश्चक्रवाका यत्र तत् तस्मिन् । तथा चन्द्रशालाशिरोगृहं तया शालतेशोभतेऽवश्यमिति चन्द्रशालाशालि तस्मिन् । तथा अनेका या भूमिका:-गृहक्षणास्ता भजतीति अनेकभूमिकाभाक् तस्मिन् । कस्मिन्निव ? शैलूष इव-नट इव । किम्भूते तस्मिन् ? अनेका या भूमिका-वेषधारणं तां भजति यः स तस्मिन् । पुनः किम्भूते धाम्नि ? शोभनानि यानि भद्राणि-गृहावयवविशेषास्तैरन्विते-सहिते । कस्मिन्निव ? धनञ्जय इव-अर्जुन इव । किम्भूते तस्मिन् ? सुभद्रा-अर्जुनपत्नी तया अन्विते । तथा चारुचित्रेण-मनोहरालेख्येन विचित्रा भित्तीर्भजते यत्तत्तस्मिन् । कस्मिन्निव ? कुरुवंशस्य आख्यानं कथा तस्मिन्निव ? किम्भूते तस्मिन् ? चित्रविचित्रौ-शान्तनसुतौ तावेव भित्तिस्तां भजति यत्तत्तस्मिन्, तौ च कुरुवंशस्य भित्तिभूतौ, तत्कलत्राभ्यां अम्बिकाऽम्बालाभ्यां पाण्डुधृतराष्ट्रयोरुत्पन्नत्वात् । तथा तुहिनाचलस्य-हिमाचलस्य उच्चकूटमिव-उन्नतशृङ्गमिव आचरत् तुहिनाचलोच्चकूटायमानं तस्मिन्, अत्युन्नते इत्यर्थः । तथा सुधया-लेपविशेषेण धवलः स्कन्धः-मध्यभागो यस्य तत्तस्मिन् । तथा ध्वजावलीषु-पताकापंक्तिषु विलग्नाः सप्तसप्तेः-आदित्यस्य सप्तयः-अश्वा यत्र तत्तस्मिन् । किम्भूतां दमयन्तीम् ? इत:भवत्समीपाद्गतास्ता:-कुब्जवामनकन्यकाः सम्भाषयन्ती-वादयन्तीं । किम्भूतास्ताः ? तवदेवस्य वार्तानां-कुशलोदन्तानां यो व्यतिकरः-सम्बन्धः स एव विनोद:-कौतुकं तं आरभन्ते- वक्तुमुपक्रमन्ते इत्येवंशीलास्त्वद्वार्ताव्यतिकरविनोदारम्भिण्यस्ताः, त्वद्वार्ताः कथयन्ती-रित्यर्थः । तथा त्वया अधिष्ठिता-आश्रिता त्वदधिष्ठिता तस्यै दिशे-आशायै उत्तरस्यै अनवरतं-निरन्तरं तरललोचनाभ्यां-चञ्चलनेत्राभ्यां यानि आलोकनानि-वीक्षणानि तैः कृत्वा नीलोत्पलानां कुवलयानां य उपहारः-ढौकनं तमिव दिशन्ती-ददतीम् । सा त्वद् दिशायै अजस्रं वीक्षते । शङ्के, तया कुवलयोपहारः क्रियत इति । पुनः किम्भूताम् ? उत्तरीयांशुकस्य-उपरिवासस: अच्छतया-अमलतया दृश्यमाना-वीक्ष्यमाणा मदनबाणानांकामशराणां ये व्रणा:-क्षतानि तेषां ये किणाः-रुढवणपदानि तेषां अनुकारिण्य:अनुकरणशीलाः सदृश्य इत्यर्थः । याः कस्तूरिकापङ्कस्य-मृगमदकर्दमस्य पत्रलताः पत्रभङ्गयस्ताभिरङ्किता-चिह्निता कुचकलशयोः श्रीर्यस्याः सा तां, मृगनाभिपत्रमञ्जर्या विभूषितपयोधरामित्यर्थः । पुनः किम्भूताम् ? ललाटपट्टे-अलिकफलके कुङ्कुमश्च-घुसृणं मृगमदश्च-कस्तूरिका मलयजश्च-चन्दनं तेषां यो रसः-द्रवस्तेन रचितं-कृतं त्रयाणां पुण्ड्रकाणां-तिलकानां यद् रेखात्रयं तत् उद्वहन्ती-बिभ्रन्तीं । किम्भूते ललाटपट्टे ? अष्टम्यां For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy