________________
दमयन्ती - कथा - चम्पूः
कथयन्ति चैवमदूरे विदर्भेश्वरोऽपि देवं द्रष्टुमायाति । लग्न इव श्रूयते च शङ्खस्वनविदर्भितो विदर्भोपकण्ठे पठद्बन्दिवृन्दकोलाहलः ।
५०८
'तदादिशतु देवो यथाकर्त्तव्यम्' इत्यभिधाय स्थिते तस्मिन् 'भद्रभूते, त्वरितं प्रवेशय विदर्भाधिपस्य परिजनं स्वयमपि तदर्धपथमनुसर' इति नलो दौवारिकमादिदेश ।
सोऽपि 'यथाऽऽज्ञापयति देवः' इत्यभिधाय यथादिष्टमकरोत् ।
हे देव ! - राजन् ! धृतो मांगल्ये - मङ्गलभावे कल्प:- दक्षो वेषः - मण्डनं यैः, भविष्यसि माङ्गल्यं, तथा पुष्पैः फलैरक्षतैश्च पूर्णानि - भृतानि यानि स्वर्णपात्राणि तानि पाण्योर्येषां ते एवम्विधाः, पुरस्थिताः - अग्रे स्थिता अमी ब्राह्मणाः तथा कुण्डिनपुनगरस्य पौरा:-नागरिकाः पुरन्ध्रयश्च - कुटुम्बिन्यो देवस्य दर्शनमेव अर्थ:- प्रयोजनं येषां यासां चेति देवदर्शनार्था:-देवदर्शनोत्सुकाः द्वारिसेवावसरमनुपालयन्ति - सेवाक्षणं प्रतीक्षन्ते, कदाऽवसरो भवेत् यदा गत्वा राजानं सेवामहे इति भावः ।
एवं ते ब्राह्मणादयः कथयन्ति - न अदूरे - समीप एव विदर्भेश्वरोप - भीमोऽपि देवं द्रष्टुमति ।
लग्न इव- आयात एव च पुनः विदर्भोपकण्ठे - विदर्भानदीसमीपे शङ्खध्वनिना विदर्भितः-सहितः पठितो? बन्दिवृन्दस्य - पाठकसमूहस्य कोलाहलः श्रूयते ।
तत्-तस्मात् देव:-नृप आदिशतु - आज्ञापयतु यथाकर्त्तव्यं कर्त्तव्यमनतिक्रम्य यथाकर्त्तव्यं-यद्विधेयं तदभिदधातु इत्यर्थः । इति - पूर्वोक्त प्रकारेण अभिधाय-उक्त्वा तस्मिन् सुवेषप्रतीहारे स्थिते सति, नलो दौवारिकं प्रतीहारं प्रति इति आदिदेशआदिष्टवान्। इतीति किम् ? हे भद्र ! - सौम्य ! भद्रभूते ! त्वरितं शीघ्रं विदर्भाधिपस्यभीमस्य परिजनं प्रवेशय-सभान्तः प्रवेशं कारय । भद्रभूतिरिति द्वाःस्थस्य नाम । द्वारे नियुक्तो दौवारिकः, “तत्र नियुक्त:" [ पा० सू० ४|४|६९ ] सप्तम्यन्तात् इति नियुक्तेऽर्थे ठक्, द्वारादित्वात् [द्वारादीनां च पा० सू० ७|३|४] ऐच् । स्वयमपि - आत्मनापि त्वं तस्यभीमस्य अर्धपथं-अर्धमार्गं अनुलक्षीकृत्य सर - व्रज । यदा इतः अर्धमार्गे समागतो विलोक्येत तदा भवतापि तदभिमुखं गन्तव्यमिति भावः ।
सोऽपि - दौवारिको यथा देव आज्ञापयति- आदिशति तथा विधास्ये इत्यभिधाय
१. कुण्डिनपुर:- कुण्डिननगरस्य अनू. । २. पठतो अनू. । ३. मंगलपाठकसमूहस्य अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org