________________
श्रीः सप्तम उच्छ्वासः
अथ सप्तमोच्छ्वास व्याख्या प्रस्तूयते
एवमविश्रान्तमतितारस्वरेण पुरः पौरपुरंथ्रिमण्डलान्युद्दण्डयतो दण्डपाशिकस्य' कलकलमाकर्णयत्यास्थानस्थिते राजनि, प्रविश्य प्रणामप्रेडोलितचारुकण्ठकन्दलावलम्बितजाम्बूनदस्थूलशृङ्खलास्फालितवक्षःस्थलः स्थविरवयाः सुवेषप्रतीहार:३ सविनयमुक्तवान् ।
एवमिति । आस्थान-सभा तस्मिन् स्थिते-निलीने राजनि-नले एवं-अमुना प्रकारेण अविश्रान्तं-निरन्तरं अतितारस्वरेण-अत्युच्चैर्ध्वनिना पुरः-अग्रे पौरपुरन्ध्रिमण्डलानिनागरिककुटुम्बिनीवृन्दानि उद्दण्डयन्तः-गाढमुत्साहयतो दण्डपाशिकस्य-तलारस्य कलकलं-कोलाहलं आकर्णयति सति, प्रविश्य सभांगणे-प्रवेशं विधाय, स्थविरवयाः-वृद्धः सुवेषप्रतीहारः सविनयं-प्रणतिपूर्व उक्तवान् । किम्भूतः सुवेषप्रतीहारः ? प्रणामेन प्रेखोलिता-दोलायमाना । चार्वी-मनोज्ञा कण्ठकन्दले अवलम्बिता-लम्बायमानीकृता जाम्बूनदस्य-कनकस्य या स्थूलशृङ्खला-आभरणविशेषस्तया आस्फालितं-आस्फोटितं वक्षः-स्थलं यस्य सः । दण्डपाशिकस्येति दण्डपाशौ स्तोऽस्येति अस्त्यर्थे इकः ।
अथ यदुक्तवांस्तदाह
देव, धृतमाङ्गल्यकल्पवेषाः पुष्पफलाक्षतपूर्णस्वर्णपात्रपाणयः पुरःस्थिता अमी' ब्राह्मणाः कुण्डिनपुरपौराः पुरंध्रयश्च देवदर्शनार्थितया द्वारिसेवावसरमनुपालयन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org