SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ५०१ आतोधस्वरविलासेन ललितं-मनोहरं तूर्यवादनपुरस्सरं गीतमुच्चारयन्त्य: सत्य: पात्राणिभाजनानि आदाय निर्यान्तु-अभिमुखं प्रयान्तु । “लयस्तूर्यत्रयी साम्ये संश्लेषणविलासयोः" [२/३८४] इत्यनेकार्थः । किम्भूतानि पात्राणि ? दूर्वा च दलानि च पत्राणि दधि च कुसुमानि च तैरुन्मिश्रा:-सहिता ये सिद्धार्थाः-सर्षपास्तान् भजन्ति यानि तानि तैर्भरितानीत्यर्थः । किम्भूता नार्यः ? सती-शोभना काञ्ची-कटिमेखला यासां ताः सत्काञ्च्यः, तथा चन्दनद्रवेण आर्द्र -स्तिमितं यत् स्तनकलशयुगं तस्मिन् आमुक्ताआयोजिता मुक्तावली मौक्तिकलता याभिस्ताः । तथा सह उत्तंसेन-कर्णकुवलयेन विद्यन्त इति सोत्तंसाः । तथा हंसपिच्छवत्-राजहंसपक्षवत् छवि:-कान्तिर्यस्य एवंविधं धवलं यद्वसनं-वस्त्रं तद् बिभ्रति-परिदधतीति हंसपिच्छाच्छविवसनभृतः । तथा वर्तितं-प्रवर्तितं यदाश्चर्य-अद्भुतं तेन वर्याः-रुचिराः । स्रग्धरा । ।। ७९ ॥ अयि भवत कतार्थाः पौरनार्यश्चिरेण. व्रजतु निषधनाथश्चक्षुषां गोचरत्वम् । ध्रुवमयमवतीर्णः स्वर्गलोकादनङ्गो, हरचरणसरोजद्वन्द्वलब्धप्रसादः ॥ ८० ॥ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां २दमयन्तीकथायां हरचरणसरोजाङ्कायां षष्ठ उच्छासः ॥ ६ ॥ अयीति । अयीति कोमलामन्त्रणे हे पौरनार्यः ! चिरेण-चिरकालं यावत् यूयं कृतार्था:-सम्पन्नमनोरथा भवत । निषधनाथ:-नलो भवतीनां चक्षुषां गोचरत्वं-ग्राह्यत्वं व्रजतु, नलं पश्यत इत्यर्थः । ध्रुवं शङ्के, स्वर्गलोकादयं अनङ्ग:-कामो अवतीर्णः, कामसमानरूपत्वात् काम एव अवतीर्ण इति । चेदयं अनङ्गस्ततः साङ्गः सन् स्वर्गात् कथमवतीर्णः ? इत्यत आह–किम्भूतोऽयमनङ्ग ? हरचरणरोजद्वन्द्वात् लब्धः प्रसादःअनुग्रहो येन सः, अतएव साङ्गो भूत्वा मन्मथ एवायमवातरदिति । मालिनी || ८० ॥ इति वाचनाचार्यश्रीप्रमोदमाणिक्यगणिशिष्यश्रीजयसोमगणितच्छिष्यपण्डितश्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रम भट्टविरचितश्रीदमयन्तीकथाविवृतौ षष्ठ उच्छ्वासः समाप्तः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy