________________
५००
दमयन्ती-कथा-चम्पू: परिजने च-परिवारे सुस्थिते-स्वस्वस्थानप्राप्त्या सम्यगवस्थिते सति । तथा कुण्डिने नातिदूरवति सति-समीपस्थिते सति दण्डपाशिकस्य-तलारस्य उच्चैः-स्पष्टं यथा स्यात्तथा वाक् उदतिष्ठत्-उत्तस्थौ प्रादुर्बभूव इति यावत् ।
सिच्यन्तां राजमार्गाः कलशमुखगलद्गोमयाम्बुच्छटाभिः,१ स्तम्भाः प्रेवत्पताकाः कुसुमपरिकरास्तोरणाङ्काः क्रियन्ताम् । स्थाप्यन्तां पूर्णकुम्भाः प्रतिनगरगृहं प्राङ्गणे चान्नमित्रै:२, सिद्धार्थैः स्वस्तिकालीलिखत नरपतिर्नैषधः प्राप्त एष:३ ॥७॥
सिच्यतामिति । एष प्रत्यक्षो नैषधो नरपति:-नलाभिधो राजा प्राप्त:-आयातः । अतो हे पौराः ! भवद्भी राजमार्गाः-राजपथा: कलशमुखेभ्यो गलन्त्यः-श्रवन्त्यो गोमयेनभूमिलेपनेन मिश्रं यदम्बुः-जलं तस्य याश्छटास्ताभिः सिच्यन्तां-उक्ष्यन्ताम् । तथा स्तम्भाः प्रेङ्खन्त्यः-वायुवशात् चलन्त्यः पताका:-ध्वजपटा येषु एवम्विधाः । तथा कुसुमानां परिकरः-वेष्टनं विद्यते येषु एवंविधाः। तथा तोरणान्येव अङ्क:-चिह्न येषां ते तोरणाङ्काः । यद्वा, तोरणैः कृत्वा अङ्कः-भूषा येषां ते तोरणाङ्काः, एवम्विधाश्च क्रियन्ताम् । पताकापुष्पतोरणविभूषिता विधीयन्तामिति भावः । “अङ्को भूषारूपकलक्ष्मसु" [२/१-२] इत्यनेकार्थः । तथा नगरगृहं, गृहं प्रति प्रति नगरगृहं पूर्णकुम्भा:-जलभृतघटा: स्थाप्यन्तांनिवेश्यन्तां । च-पुनः यूयं प्रतिनगरगृहं अन्नमित्रैः-भक्तसहितैः सिद्धार्थैः-सर्षपैः स्वस्तिकाली:- चतुष्पंक्ति लिखत । "स्वस्तिको मङ्गलद्रव्ये गृहभेदचनुष्कयोः" इत्यनेकार्थः[३/१०४] । स्रग्धरावृत्तम् ।।
अपि च"सत्काञ्च्यश्चन्दनार्द्रस्तनकलशयुगामुक्तमुक्तावलीकाः, पात्राण्यादाय दूर्वादलदधिकुसुमोन्मिश्रसिद्धार्थभाञ्जि । सोत्तंसा हंसपिच्छच्छविवसनभृतो वर्तिताश्चर्यचर्या, नार्यो निर्यान्तु तूर्यध्वनिलयललितं गीतमुच्चारयन्त्यः ॥ ७९ ॥ अपि च-पुनराह दण्डपाशिक:
सत्कांच्य इति । हे नार्यः !-सधवाः स्त्रियः । भवत्यः तूर्यध्वनिलयेन१. परिजनेन च अनू. । २. समीपस्थे अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org