________________
षष्ठ उच्छवासः
४४७
सीमानं-अवधिं यावत् सोपानसदृशः-आरोहणसमानास्तरङ्गा यस्याः सा । एतावता उत्कल्लोलया वर्तत इति । स्वरिति अव्ययं स्वर्गार्थे । तथा गङ्गायाः प्रतिस्पर्द्धिप्रतिस्पर्धनशीलं जित्वरं पयः-पानीयं यस्याः सा, विशदाम्भोधरत्वात् । इन्द्रवज्रावृत्तम्
॥२६॥
यस्याः पश्यैते
मुक्तास्त्रैः श्रूयमाणं सिकतिलपुलिनप्रान्तविश्रान्तपान्थैरुन्धानं मञ्जुगीतप्रियहरिणकुलान्यम्बुपानागतानि । सांध्यध्यानावसाने क्षणमिव मुनयः संनिधौ पङ्कजाना
मोङ्कारोच्चाररम्यं मधुकरमधुरध्वानमाकर्णयन्ति ॥ २७ ॥ यस्या इति ? मुक्तेति । हे देव ! तं पश्य । यस्याः सरितः पङ्कजानां सन्निधौसमीपे एते मुनयः सान्ध्यध्यानस्य-सायन्तनध्यानस्य अवसाने-प्रान्ते क्षणमिव-क्षणमेकं ओंकारस्य य उच्चारः-उच्चरणं तद्वद् रम्यं मधुकराणां मधुरं-मृष्टं ध्वानं-झङ्कारारवं आकर्णयन्ति- शृण्वन्ति । मुनीनां च वेदत्रयीवाचिनि ओंकारे लीनत्वात् तत्प्रतिनिधौ मधुकरध्वाने बहुमानः । तथा च
"त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि पुरानकाराद्यैर्वणस्त्रिभिरभिदधत्तीर्णविकृतिः । तुरीयं ते धाम ध्वनिभिरिव सन्धानमणुभिः,
समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥" [ ] किम्भूतं मधुकरमधुरध्वानं ? मुक्तानि अस्राणि-अश्रूणि यैस्ते एवम्विधैः, सिकता अस्मिन् देशेऽस्तीति सिकतिलः । सिकतावान् यः पुलिनप्रान्तः-तटावसानं तस्मिन् विश्रान्ताः-खेदमपनयन्तो ये पान्थास्तैः श्रूयमाणं, मधुकरध्वानस्य प्रियोत्कण्ठाजनकत्वात् पान्थानां मुक्ताऽश्रुत्वं । सिकतिल:- सिकतावान् देशः “सिकताशर्कराभ्यां" [पा. सू. ५/२/१०४] मत्वर्थे देशे इलच् । तथा अम्बुपानाय-जलपानार्थमागतानि मञ्जुः-मनोज्ञा गीति:-गानं प्रिया-इष्टा येषां एवम्विधानि यानि हरिणकुलानि तानि सन्धानं-अन्यत्र गन्तुं न ददतं । गीतप्रियत्वात् हरिणां रोधः । स्रग्धरा ॥ २७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org