SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४४१ विस्मृतान्यव्यापारे तन्मयतामिवानुभवति भूभुजि, जरठीभवत्सु पूर्वाह्नवेलालवेषु, गगनमध्यासन्नवर्तिनि व्रजति तीव्रतां ब्रनमण्डले, स्खलयति पथि पथिकानसह्योर्मिणि' घर्मजाले, जलाशयमनुसरत्सु पिपासाकूततरलिततारकेषु श्वासितश्वापदेषु३, पङ्किलकुलकर्दम विमर्दोद्यतेषु सरित्परिसरवनविहारिकरिवराहमहिषमण्डलेषु, विटपिकोटरकुटीरनीडनिलयनिलीयमानेषु संपुटितपक्षेषु पक्षिषु, कूलकुलायकोणकूणितकोकूयमानकुक्कुहेषु गिरिसरित्सुरङ्गाङ्गणेषु', रङ्गत्कुरङ्गचर्वितखर्वदूर्वानलनीलनिम्नगाशाद्वलस्थलस्थितये हिण्डमानास कारण्डवशिखण्डिमण्डलीषु , शिशिरनिवासवाञ्छया कूजत्सु करञ्जनिकुञ्जपुञ्जितकपिञ्जलकपोतेषु, वहति मनाङ म्लानकोमलकुसुम कोशकोष्णमकरन्दबिन्दूद्गारिणि तापीतीरतरङ्गस्पर्शशैत्ये मध्याह्नमरुति, श्रमवशविलोलमीलन्नयननीलोत्पलासु बहलतरतरुच्छायामाश्रयन्तीषु सीदत्सैनिकनितम्बिनीषु प्रस्तावपाठकः पपाठ। एवं-वक्ष्यमाणप्रकारेण इतीति जायमाने सति प्रस्तावपाठकः पपाठ । क्व सति ? पुष्कराक्षे जल्पति सति । कथम् ? अनुरागस्य-प्रेमबन्धस्य अनुगुणं-अनुकूलं यथा भवति तथा एवं अग्रेष्वपि पदेषु क्रियाविशेषणत्वं वाच्यम् । एतद् वाक्यात् अनुरागवृद्धः । तथा शृङ्गारस्य सदृशं शृङ्गाररूपमित्यर्थः । तथा आदरस्य सहोदरं भ्रातरं सादरम् । तथा प्रेमप्रपञ्चस्यस्नेहविस्तरस्य प्रियं-इष्टं, अस्माज्जल्पनात् तस्यां स्नेहवृद्धः । तथा अनङ्गस्य-कामस्य प्रोत्साहनंप्रोल्लासनम् । तथा उत्कण्ठाया:-तन्मिलन्वाञ्छाया अनुकूलं, तदुत्कण्ठाकारित्वात् । तथा अभिनिवेशस्य-हठस्य समुचितं, तस्याः परिणयने गाढाग्रहजनकत्वात् । तथा कौतुकजननंकुतूहलोत्पादनं यथा भवति तथेति । पुनः क्व सति ? भूभुजि-नले तन्मयतामिव-भैमीरूपतामिव अनुभूतवति सति, सर्वत्रापि मैत्रीमेव पश्यतीत्यर्थः । किम्भूते भूभुजि ? श्रवणे-तद्वार्ताकर्णने कौतूहलं विद्यते यस्यासौ तस्मिन् । अतएव पुनः किम्भूते ? विस्मृता -अन्ये व्यापारा:अवलोकनादिरूपा यस्य स तस्मिन् । पुनः केषु सत्सु ? पूर्वाह्णस्य-पूर्वयामद्वयस्य ये वेलालवा:-कालविशेषास्तेषु जरठीभवत्सु बहुषु अतिक्रान्तेषु सत्सु । पुनः क्व सति ? ब्रध्नमण्डले-सूर्यबिम्बे तीव्रतां-उग्रतां व्रजति-प्राप्नुवति सति । गत्यर्थानां धातूनां प्राप्त्यर्थत्वात् । किम्भूते ब्रध्नमण्डले ? गगनमध्यस्य-नभोमध्यभागस्य आसन्ने-निकटे वर्तितुं शीलं यस्य तत्तस्मिन्, किञ्चिन्न्यूनमध्याह्ने जाते इत्यर्थः । पुनः क्व सति ? घर्मजले-स्वेदाम्भसि पथिमार्गे पथिकान् स्खलयति-पीडयति सति, पथिकानां तापाधिक्यात् प्रस्वेदे बहो जायमाने सतीत्यर्थः । १. प्रेमप्रपञ्चनस्य अनू. । २. स्नेहविस्तरणस्य अनू. ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy