SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः रजनिमवनिनाथ: सांध्यकर्मावसाने, हरचरणसरोजद्वन्द्वसेवां विधाय । मृदुकलितविपञ्चीपञ्चमप्रायगीतश्रवणसुखविनोदैस्तां स तस्मिन्ननैषीत् ॥ ७७ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां? पञ्चम उच्छ्वासः समाप्तः ॥ रजनिमिति । स अवनिनाथ: - नलः तस्मिन्वने सान्ध्यकर्मण:-सन्ध्यावन्दनादेरवसाने-प्रान्ते हरचरणसरोजद्वन्द्वस्य- शम्भुपादपद्मयुगस्य सेवां विधाय - कृत्वा मृदु-मधुरं यथा भवति तथा कलिता - वादिता या विपञ्ची - वीणा तया, तथा पञ्चमरागः प्रायःबाहुल्येन यत्र एवंविधं यद्गीतं गानं तेन च श्रवणे - श्रोत्रे सुखयतीति श्रवणसुखा, एवम्विधा ये विनोदा:-कौतुकानि तैः कृत्वा रजनीं अनैषीत् - अत्यवाहयत् । श्रवणसुखेति "पचाद्यच्” [ ] ॥७७॥ इति वाचनाचार्य श्रीप्रमोदमाणिक्यगणिशिष्य श्रीजयसोमगणितच्छिष्यपण्डित-श्रीगुणविनयगणिविरचितायां श्रीत्रिविक्रमभट्टविरचितश्रीदमयन्तीकथाविवृतौ पञ्चम उच्छ्वासः समाप्तः । १. सुखयन्तीति अनू. । Jain Education International For Personal & Private Use Only ४०७ - www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy