SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः स्खलयति श्रेयःस्रोतांसि ११ षण्ढमुख १ २ दर्शनमिव वर्धयत्यलक्ष्मीम्, रजस्वलाभिगमनमिव हरत्यायुः इत्यनेकविधमवधार्य न नाम दुरधिगमाः केऽपि पदार्थास्तत्रभवतामशेषजगदीश्वराणाम्, न च न जानीथ ममापि प्रसिद्धमध्यवसायम्, एवं स्थितेऽप्येष वः करोम्यादेशम्, आदिष्टपरामर्शो न श्रेयानादेशकारिणः, किं तु बलीयान्परतो विधि: प्रमाणम्' इत्यभिधाय भक्त्या भयेन च देवानां दौत्यादेशं समर्थितवान् । ३७८ स्थित्वा च १३ किंचित्क्षणमुचितालापलीलया कृत्वा च कांश्चिदन्योन्यप्रस्तुतप्रियव्यवहारान्, आपृच्छ्य, यथागतं गतेष्वथ तेषु देवेषु १४ निषधेश्वरश्चिरं चिन्तयांचकार । अथ नलोऽपि एतत्-कुबेरोक्तं आकर्ण्य-चिन्तितवान् । तदिदं संकटं - सम्बाधं आपतितं । इत:-अस्मिन् प्रदेशे व्याघ्रः, इतो दुस्तटी - भ्रश्यत्प्रदेशत्वात् दुष्टतटिनीतटं । इतो दावाग्नि:-दावानलः, इतो दस्यवः - चौराः । इतो दुष्टो दन्दशूक:- सर्पः, इतोऽपि अन्धकूप:सान्धकारोऽन्धुः । इति न्यायात् - इति निदर्शनेन । इतः कर्णान्तं यावदाकृष्टं शरासनं - धनुर्येन ईदृशो मर्मप्रहारी - अरुन्तुदो मकरध्वजः - कामः प्रहरति । शरा अस्यन्ते - क्षिप्यन्ते अनेनेति शरासनं धनुः । इतश्च एतेषां देवानामयमादेशः अलङ्घनीयः - दुर्लंध्यस्तन्न जानीमः, किमत उत्तरं प्रतिवचः । एकत्रार्थे - दमयन्तीवरणलक्षणे एकस्मिन्नेवार्थे अस्माकं भवता च प्रवृत्तिरिति प्रणयप्रार्थनाया:- स्नेहयाञ्चायाः भङ्गं करोतीत्येवंशीला विहतः - १ निरस्तो विनयो यया सा एवंविधा प्रतिकूलोक्तिः - प्रतिकूलकथनं यदैवमुच्यते, २ तदा एभिः स्नेहेन या प्रार्थना कृता सा भग्नैव विनयोप्यपास्त एव । अथ दूतोक्तीनां - दूतवचनपद्धतीनां अनभिज्ञःअचतुरः, दौतीयवचनानि वक्तुं न जानामीति शाठ्यं धूर्तता, जानन्नपि अजानोस्मीत्युक् स्पष्टा धूर्तता । अथ सन्दिग्धक्रियायां - दमयन्ती भवतः परिणेष्यति न वा इति संशयितविधौ या कारिता भवतां तां लम्भयिष्यामीति निश्चयकरणशीलता तस्यां असमर्थोस्मि - अप्रभुरस्मि, विवाहलक्षणं सन्दिग्धं कार्यं कर्तुं न शक्नोमीति आज्ञालंघनं, अस्माकमिदं कार्यं कुरु इत्येवंरूपादेशप्रतिषेधनं । आज्ञालंघनं च सेतुबन्धनमिव - पालिकरणमिव श्रेयांस्येव स्रोतांसि जलप्रवाहास्तानि स्खलयति - प्रतिघातयति, यथा आगच्छत् स्रोतः सेतुबन्धनेन प्रतिषिध्यते । तथा महतामाज्ञालंघनं आगच्छत् श्रेयः प्रतिघातयतीति । तथा आज्ञालंघनम् षण्ढस्यनपुंसकस्य यन्मुखदर्शनं - वक्त्रावलोकनं तदिव अलक्ष्मीं- अश्रियं वर्द्धयति, यथा षण्ढमुखदर्शनादलक्ष्मीर्जायते तथाऽऽज्ञालंघनादपि । तथा आज्ञालंघनं रजस्वलायां-पुष्पवत्यां १. विहितः अनू. । २. यदानीमेवं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy