SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ३६० दमयन्ती-कथा-चम्पू: तदिदमद्यतनं दिवसमस्य सैन्यस्याध्वश्रमापनुत्तिरेनिमित्तमधिवसतु देवः । यत्र वायस्कन्धमवष्टभ्य स्फारितैः पुष्पलोचनैः । वियद्विस्तारमेते हि वीक्षन्त इव पादपाः ॥ ४५ ॥ तत्-तस्माद्धेतोः देव:-नृपः अद्यतनं दिवसं अस्य-सैन्यस्य अध्वन:-मार्गस्य यः श्रमः-खेदस्तस्य या अपनुत्तिः-अपनोदस्तन्निमित्तं इदं वनं अधिवसतु-आश्रयत् । "उपान्वध्याङवसः" [पा. सू. १/४/४८] इति उपादिपूर्वस्य वसतेराधारस्य कर्मसंज्ञा । ननु सैन्यस्य कुतो' आवासस्तमाह-योति । वायुरिति । हि:-यस्मात् यत्र-वने एते पादपाः, स्कन्धशब्दः संहत्यर्थो सार्थश्च, वायोः स्कन्धमवष्टभ्य-अवलम्ब्य स्फारितैः-विकसितैः पुष्पाण्येव लोचनानि तैः कृत्वा वियद्विस्तारं-नभोविशालत्वं वीक्षन्त इव । अन्योऽपि उच्चैर्यो वीक्षते सोऽपि कस्यचित् स्कन्धमवष्टभ्यैव वीक्षत इति । एतावताऽत्र तरवस्तुङ्गाः पुष्पिताश्च सन्ति अतो निवासास्पदमेतदिति भावः ॥ ४५ ॥ अपि च येषाम् स्कन्धशाखान्तरालेषु पश्य जीमूतपङक्तयः । लम्बमाना विलोक्यन्ते चलद्वल्गुलिका इव ॥ ४६ ॥ अपि च-पुनः येषां स्कन्धमिति । हे राजन् ! त्वं पश्य । येषां तरूणां शाखान्तरालेषु-शाखाभ्यन्तरेषु जीमूतपंक्तयो लम्बमानाः-अधो दोलायमाना वीक्ष्यन्ते । उत्प्रेक्ष्यते-चलन्त्यो या वल्गुलिका:-तैलपायिकास्ता इव, ता अपि शाखान्तरालेषु लम्बमाना एव तिष्ठन्तीति तासां भ्रमं कुर्वते मेघपंक्तय इति । मन्ये, एता वल्गुलिका इति ।। ४६ ।। येषां च उञ्चैः शाखाग्रसंलग्ना मन्ये नूनं नगौकसाम् ।६ कुर्वन्ति पुष्पसंदेहं निशि नक्षत्रपङ्क्तयः ॥ ४७ ॥ १. कुतोऽत्र अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy