________________
दमयन्ती-कथा-चम्पू: मापि विदर्भदेशस्य, श्रुतापि श्रवणयोः सुखमजीजनदक्षिणा दिक् ।
तदा प्रभृति च-यहिने हंसेन प्रतिगतं तद्दिनादारम्य अस्य-नलस्य प्रायः-बाहुल्येन दाक्षिणात्यजनेष्वेव-दक्षिणदिग्वासिपथिकेष्वेव प्रीतिरभूत्, तथा विदर्भदेशस्य नामापि पुलकं-रोमाञ्चं अकरोत्, तथा श्रवणयोः-कर्णयोः श्रुताऽपि दक्षिणदिक्सुखमजीजनत्उत्पादयामास ।
किं बहुना
लिप्तेवामृतपङ्केन घृष्टेवानन्दकन्दलैः ।
आसीदिग्दक्षिणा तस्य कर्णयोर्मनसो दृशोः ॥ १९ ॥ किम्बहुना-किम्बहूक्तेन
लिप्तेति वृत्तम् । दक्षिणा दिक् तस्य-नलस्य कर्णयोर्मनसो दृशोरीदृशी आसीत् । किम्भूता ? उत्प्रेक्ष्यते, अमृतपङ्केन लिप्तेव-दिग्धेव, तथा आनन्दस्य ये कन्दला:-प्ररोहास्तैः घृष्टेव । स्पृष्टेवेति पाठान्तरं परमालादजनकत्वादित्यर्थः ॥ १९ ॥
दमयन्त्यपि हंसदर्शनदिवसादारभ्य भ्रमद्भङ्गकुलकलकलोन्नादितपर्यन्तेषु, प्रत्यग्रोल्लूनपुष्पपल्लवास्तरणेषु, २विलसद्विनोदविहंगेषु विहरति नासन्नोद्यानलतामण्डपेषु, न च विकचकुवलयकह्लारकुशेशय सारवारिणि रणश्चटुलचञ्चरीकचक्रवाकचक्रे क्रीडति क्रीडासरसि, न स्पृशति पाणिनापि माणिक्यमालामण्डनानि, न च रचयति रुचिरालकवल्लरीभङ्गान्तरेषून्मिषत्कुसुमविन्यासान्, न च क्वचिदुच्चहंसतूलीतल्पेऽपि कोमलकपोलावष्टम्भभाजि निद्रासुखमनु भवति, केवलमधिपाण्डुगण्डपालिनिहित पाणिपल्लवा प्रेषयन्ती प्रतिक्षणमुत्तरस्यां दिशि दृशं तद्देशागतानगगन पक्षिणोऽपि सस्पृहं पश्यन्ती, तत्रत्यानध्वगानपि बन्धुबुद्ध्यालापयन्ती, तन्मण्डलागताय मरुतेऽप्यपनीतोत्तरांशुका स्वयं हृदयमर्पयन्ती दिनं दिनमनङ्गेनाभ्यभूयत ।
दमयन्त्यपि हंसदर्शनदिवसादारभ्य आसन्नोद्यानलतामण्डषेषु-निकटवर्त्तिवनस्य द्राक्षादिलतामण्डपेषु न विहरति-न विचरति । किम्भूतेषु लतामण्डपेषु ? भ्रमत्-सञ्चरद्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org