________________
३३४
दमयन्ती-कथा-चम्पू: जातं स्थानकमुत्सुकस्य' नृपतेस्तत्तस्य यस्मिन्नभू-,
त्प्रेयान्पञ्चमराग एव रिपवः शेषास्तु सर्वे रसाः ॥ १६ ॥ आविरिति वृत्तम् । उत्सुकस्य-दमयन्तीमिलनाय उत्कण्ठितस्य तस्य नृपतेः-नलस्य तत्स्थानकं-अवस्थानान्तरं जातं यस्मिन् स्थानके पञ्चमराग एव-पञ्चमाख्यरागविशेष एव प्रेयान्-अतिशयेनेष्टोऽभूत्, शेषास्तु सर्वे रसाः-विषयानुरागा रिपव:-अनिष्टा जाताः । किम्भूतं स्थानकम् ? आविर्भूतः-प्रकटीभूतो विषादः-मनःपीडा एव कन्दो यस्मिस्तत् । तथा असम:-अतुल्यो यो व्यामोह:-मूर्छा तेन मीलत्-संकुचत् उपरतविषयानुरागं मनो यत्र तत् । तथा चिन्तया-तदध्यवसायेन उत्तम्भिते-उच्चैःकृते निर्निमेषे-अक्षिसङ्कोचरहिते नयने-नेत्रे यत्र तत्तथाविधं । तथा निःश्वासेन-विरहोष्ममुखवायुना दग्धौ अधरौ-ओष्ठौ यत्र तत् । उत्तम्भितेति, स्तम्भुः सौत्रो धातुः स्वार्थिको णिच् क्तः ॥ १६ ॥
ततश्च वृश्चिकदंशदुःसहव्यथामवस्थामनुभवन्निवरे, कण्टकैश्चरणमर्मणि विध्यमान इव३, मुहुर्मुहुर्मुर्मुरपुञ्जराजीवाङ्गानि धारयन्नुष्ण५ग्रीष्मानिलोल्लोलैरिवालिङ्ग्यमानो, मनागपि न क्वापि शयितो विप्रबुद्धो वा शर्म लेभे ।
- ततश्चेति । ततो दमयन्तीविरहात् स राजा मनागपि-स्तोकमपि न क्वापि शयितःसुप्तो विप्रबुद्धो वा- गतनिद्रः सन् शर्म-सुखं लेभे-प्राप । नलः किं कुर्वन्निव ? उत्प्रेक्ष्यते, वृश्चिकदंशेन-अलिभक्षणेन दुःसहा-सोढुमशक्या व्यथा-पीडा यत्र ईदृशीमवस्यां-दशामनुभवन्निव, मन्ये वृश्चिकेन दष्ट इति । तथा कण्टकैश्चरणमर्मणि-पादमर्मप्रदेशे विध्यमान इवभिद्यमान इव कामव्यथयातिपीडितत्वात् । तथा मुहुर्मुहुः-वारम्वारं तापातिरेकेण क्षिप्तमात्रशुष्कत्वात् मुर्मुरः- पुञ्जो येषां तानि' मुर्मुरपुञ्जानि तथाभूतानि राजीवानि येषु अङ्गेषु तानि च तान्यङ्गानि धारयन् । मुर्मुरस्तुषवह्निः । यद्विश्वप्रकाश:-"मुर्मुरस्तुषवह्नौ स्यान्मन्मथे रथवाजिनि" [रान्त. १४०] तथा उष्णां-तप्ता ये ग्रीष्मानिलाःनिदाघवायवस्तेषां ये उल्लोला:-कल्लोलास्तैरालिंग्यमान इव-आश्लिष्यमाण इव ।
तथाहितथाहीति । विरहिणोः दुःखमेव दर्शयति
श्च्योतच्चन्द्रमणिप्रणाल शिशिराः सौगन्ध्यरुद्धाम्बरैनिर्गच्छन्नवधूपधूमपटलैः संभिन्नवातायनाः ।
१. पुंजानि अनू. येषां तानि नास्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org