SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ २७८ दमयन्ती-कथा-चम्पूः पराभवं प्राप्नोति कुबुद्धिः । "अपि भ्राता सुतोऽर्थ्यो वा श्वशुरो मातुलोऽपि वा । दण्ड्यो नाम न राज्ञोस्ति धर्माद् विचलितः स्वकात् ॥" [ ] इति स्मार्ताः । ततः स्वपितुरपि राज्ञः सकाशात् राजकुमारस्य अन्यायवतः परिभवो युज्यत एवेत्यर्थः । तथा अनया-स्त्रिया अवष्टब्धः-आश्रितः कः-पुरुषो गुरूणां-पित्रादीनां वारणेनिषेधे योग्यो न भवति, अपितु सर्वोऽपि स्त्रीवशगः, पित्रादिभिरपि स्त्रीव्यसनाद् वार्यते । वा-अथवा कः-स्त्रीवशगः पुरुषः आजि:-सङ ग्रामस्तस्याः पृष्ठं-मध्यं न आरोहति नाश्रयति । वा-अथवा क:-पुरुषः स्त्रीवशग: वञ्चनात:-वञ्चनायाः “पञ्चम्यास्तसिल्" [५।३।७] कं-सुखं-वञ्चनाकृतं सुखमित्यर्थः, कणन्शब्दायमानः सन् न प्रकटयतिप्रकाशयति । तथा कः-पुरुषः कण्ठे-गलान्तः हा-इति य आरावः तस्य मोचनं न कुरुते, स्त्रिया हि वञ्चितः को न रोदितीति । तथा कः-पुरुषः स्त्रीवशगः काञ्चन-काञ्चित् शृङ्खलाबन्धनं२ नानुभवति । वा-अथवा क:-पुरुषः अनया अन्धीभूतः-विवेकविकलः सन् गुरौ-गुरुविषये अञ्चनां-पूजा करोति । क इव ? कुसङ्ग इव, स च अन्धीभूतः को वागुरा मृगजालिका तस्या वञ्चनां३-उल्लंघनं करोति, अपितु तस्यामेव पततीत्यर्थः । तथा कः-पुरुष: स्त्रीवशगः पराभवादिना प्रगेव या विसदृशो लक्ष्यत इति विलक्षस्तस्य भावो वैलक्षं-वीक्षापन्नत्वं गतगौरवत्वं, अत्र भावे "अण्", न आगच्छति-न प्राप्नोति । क इव ? कार्मुकाद्-धनुषो निर्मुक्त: शिलीमुख इव-बाण इव, स च को वै-स्फुटं लक्षं-वेध्यं नाप्नोति, अपितु सर्वोऽपि । तथा कस्य-स्त्रीवशगस्य पराभूति:-पराभवो न भवति । तथा कस्य अनिषेधवाची पूर्वो यस्मात् यशःशब्दरूपात् तदपूर्वं यशः अयश इत्यर्थः, न समुच्छलति-नोद्भवति ? स्वस्थावस्थायां स्त्रैणानि वञ्चनकूटराजपराभवादीनि अभिधाय सम्प्रति परपरिणामे यत् स्यात्तदाह किमतोऽपीति । अतोऽपि-पूर्वोक्तादपि वञ्चनादिप्रकारात् परं-अन्यत् अस्या:स्त्रियाः किमपि उच्यते-कथ्यते । यादवेति । या-स्त्री दवं-उपतापं प्रीणाति दवप्रियं-रोगिणं, अथवा दुनोतीति दवः, कुतश्चिद् वैगुण्यात् उपतापजनको यः प्रिय:-कान्तस्तं, शूरं-विक्रान्तं महत्तरं-वृद्धं १. आश्रयति अनू. । २. शृंखलां अनू. । ३. वंचनं अनू. । ४. प्रागवस्थाया । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy