SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ २६६ दमयन्ती-कथा-चम्पू: क्रियते, यदि राजा गच्छेत्तदा तेऽपि गच्छन्ति, यदि तिष्ठेत्तदा तेऽपि तिष्ठन्तीत्येवमनुगमनं कुर्वन्ति तथाऽङ्गावयवा अपि । तथाहीति । तमेवानुवर्त्तन प्रकारमाह श्रवणे-शास्त्राकर्णने आसक्तः-लग्नो यः स तस्य नलस्य लोचनद्वयमपि श्रवणसङ्गति-कर्णसम्बन्धमकरोत्, आकर्णान्तं लोचनद्वयागमनस्य प्रशस्यलक्षणत्वात् । अनुवृत्तिस्तु सर्वत्र तुल्यार्थे व्याख्येया । तथा उन्नतः-उदारः स्वभावो यस्य स, तस्य नासावंशोपि नासिकादण्डोऽपिऔन्नत्यं जगाम । यदि अस्मत्स्वाम्युन्नतस्वभावस्तहि मयाप्युन्नतेनैव भाव्यमिति वितळ नक्रमप्युन्नतं जातम् । तथा वक्रोक्तौ-भङ्गश्लेषोक्तौ कुशल:-चतुरो यः स, तस्य नलस्य केशपाशोऽपिप्रशस्तकेशसमूहोऽपि वक्रतां-कुटिलतां भेजे-शिश्राय । यद्यसौ वक्रोक्तिषु कुशलस्तर्हि अस्माभिरपि वक्रैर्भाव्यमिति केशा अपि वक्रा बभूवुः । तथा शङखवत्-कम्बुवन्निर्मला:-विशदा, गुणा यस्य स तस्य-नलस्य कण्ठोऽपि शङ्खाकारं-शंखवद् रेखात्रयमधारयत्-बभार । यद्यसौ शङ्खवन्निर्मलगुणस्तर्हि मयाऽपि शङ्खाकृत्यैव भाव्यमिति कण्ठोऽपि शङ्खाकारमभजत् । तथा पृथुला-विशाला मतिः-बुद्धिर्यस्य स तस्य पृथुलमतेर्नलस्य अंसकूटद्वयमपिस्कन्धशिखरद्वन्द्वमपि पृथुलं-विशालं अभूत् । यद्यस्य मतिर्विशाला तदा मयापि विशालेनैव भाव्यमिति स्कन्धकूटद्वयमपि विशालमभूत् । कूटशब्दः शिखरार्थः । तथा प्रमाणं-तर्कशास्त्रं वेत्त्यवश्यमिति प्रमाणवेदी तस्य प्रमाणवेदिनो नलस्य वक्षःस्थलमपि सुष्ठ, प्रमाणं-मानं यस्य तत् सुप्रमाणं अजायत । यद्यसौ प्रमाणवेदी तर्हि अहमपि सुप्रमाणं भविष्यामीति आकलय्य हृदयेनाऽपि सुप्रमाणता अश्रियत । तथा मध्यस्थस्य-अकृतपक्षपातस्य तस्य-नलस्य रोमराजिरपि मध्ये-उदरे तिष्ठतीति मध्यस्था शुशुभे-रराज । यद्यसौ मध्यस्थस्तदा मयापि मध्यस्थया भाव्यमिति रोमराजिरपि माध्यस्थ्यमाप । तथा शोभनं वृत्तं-शीलं यस्य स तस्य नलस्य बाहूरुयुगलमपि-भुजसक्थिद्वन्द्वमपि सुष्ठ वृत्तं-वर्तुलमभवत् । तथा गम्भीरा-अस्ताघा प्रकृतिः-स्वभावो यस्य स गम्भीरप्रकृतिः-अलक्ष्यकोप Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy