SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ २६५ चतुर्थ उछासः किं बहुना रसे रसायने ग्रन्थे शस्त्रे शास्त्रे कलास्वपि । ___नले न लेभिरे लोकाः प्रमाणं निपुणा अपि ॥ १४ ॥ किम्बहुना-किम्बहूक्तेन रसेति । वृत्तम् । रसः-पारदः, रसायनं-जरामरणापह औषधयोगः, ग्रन्थःकाव्यशास्त्रादिरचना, शस्त्रं-खड्गादि, शास्त्रं-व्याकरणतर्कादि, कला-गीतनृत्यादिका एतेषु निपुणा अपि सन्तो लोका नले राज्ञि प्रमाणमियत्तां अर्थाद्रसादीनामेव न लेभिरे-न प्रापुः । एतावद्रसादिपरिज्ञानमस्यास्तीत्येवं नाज्ञासिषुः, अतिशयेन रसादिपरिच्छेत्तेत्यर्थः ॥ १४ ॥ क्रमेण य शैशवमतिक्रामतोऽस्य सेवकैरिवागावयवैरप्यनुवृत्तिः कृता । तथाहिश्रवणासक्तस्य तस्य लोचनद्वयमपि श्रवणसंगति मकरोत् । उन्नतस्वभावस्य नासावंशोऽप्युन्नतिं जगाम । वक्रोक्तिकुशलस्य केशकलापोऽपि वक्रतां भेजे । शङ्खनिर्मलगुणस्य कण्ठोऽपि शङ्खाकारमधारयत् । पृथुलमतेरंसकूटद्वयमपि पृथुलमभूत् । प्रमाणवेदिनो वक्षःस्थलमपि सुप्रमाणमजायत । मध्यस्थस्य तस्य रोमराजिरपि मध्यस्थिता' शुशुभे । सुवृत्तस्य बाहूरुयुगलमपि सुवृत्तमभवत् । गम्भीरप्रकृतेर्तस्य नाभिरपि गम्भीरा व्यराजत । पल्लवसुकुमारहृदयस्य करचरणैरपि पल्लव सौकुमार्यमङ्गीकृतम् । क्रमेण च-दिनपक्षमासादिपरिपाट्या शैशवं-बालत्वं अतिक्रामतः-मुञ्चतो अस्यनलस्य अङ्गावयवैः-शरीरावयवैर्नेत्रादिभिरनुवृत्तिः-अनुगामित्वं कृता । यथा अनेनाक्रियत तदा तदङ्गावयवैरपि । कैरिव ? सेवकैः-अनुचरैरिव । यथा अनुचरैः राज्ञोऽनुवृत्तिः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy