SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः प्रतियत्नेऽनुभवे मानसकर्म्मणि । गुणभेदे" [ ३।६५२ - ६५३ ] इति । तथा तव प्रश्रय:प्रणयः सौजन्यस्य-सुजनतायाः आश्रयः । तथा तव मैत्री - सुहृत्ता निःकारणं-कारणं विनाऽपि उपकारं दधाति-पुष्णातीति नि: कारणोपकारधात्री । २५२ तत्-तस्माद्धेतोः हे हंस ! त्वं अनेकधा - बहुभिर्प्रकारैः जनितो विस्मयो येन ईदृग्विधः सन् बहु- प्रचुरं प्रष्टव्योऽसि, किन्तु प्रस्तुतं - प्राकरणिकं पृच्छामः । त्वं कथय कोऽयं नलो नामेति प्रसिद्ध: ? किम्भूतः ? आत्मरूपेण सम्भावितःसदृक्रूपतया' ज्ञातो यः कन्दर्पस्तस्य दर्प एव दवः - वनं तत्र अनल इव - अग्निरिव यः स, तदधिकरूपवत्वात् । यो ह्यधिको भवति स स्वस्पर्द्धिनो दर्पं स्फेटयत्येव । तथा नलोऽपि यस्य एतानि मन्दरेण - मेरुणा यन्मथनं - विलोडनं तस्य क्षणे - अवसरे क्षुभितो यः क्षीरसागर : - क्षीराब्धिस्तस्य ये तरङ्गाः - वीचयस्तेषां यो भ्रमः - भ्रमणं तस्य भ्रान्ति - सन्देहं कुर्वन्ति यानि तानि ईहंशि यशांसि भ्रमन्ति मन्ये अमूनि यशांसि न भ्रमन्ति किन्तु क्षीराब्धेरमी तरङ्गा एव भ्रमन्तीति । यशसः श्वेततया वर्णनमिति कविसमयः । इत्येवमुक्तः सोऽपि 'सुन्दरि, यद्येवमुपविश्यताम् । अवधीयतां मनः । श्रूयतां सविश्रब्धम्' इत्यभिधाय कथयितुमारब्धवान् । "" इत्येवं दमयन्त्या उक्तः - कथितः सोऽपि - हंस उवाच - हे सुन्दरि ! यद्येवं तद्वार्त्ताश्रवणे मनो विद्यते तर्हि उपविश्यतां स्थीयतां, तथा मनः अवधीयतां एकाग्रीक्रियतां, अन्यस्थानान्निवर्त्यतामित्यर्थः । तथा सविश्रब्धं - विश्रम्भणं विश्रब्धं “ भावे क्तः [ ] तेन सहितं सविश्रब्धं - सविश्वासं यथा भवति तथा श्रूयतां आकर्ण्यतां इति अभिधाय कथयितुमारब्धवान् । 'अस्ति समस्तसुरासुरलोककर्णपूरीकृतकान्तकीर्तिकुन्दकुसुमः, कुसुमायुधरूपरमणीयदेहप्रभः, प्रभावयुक्तो विप्रभावश्च, शुचिरनुपतापकारी च, घनागमसमयो न वारिबहुलश्च शिशिरस्वभावो न जाड्ययुक्तश्च, रामः कुशलवयोरामणीयकेन, जनको वैदेहभागेन, नैषधः प्रजानां पति:५, विरिञ्च' इव नाभिभूतः समरे, वीरो वीरसेनो नाम । 1 १. रूपं नास्ति अनू. । २. भवन्ति अनू । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy