________________
२५१
चतुर्थ उच्छ्वासः
दमयन्ती तु तस्याः सवैलक्ष स्मितमेवोत्तरं कल्पयन्ती शनै:२ शिरःकम्पतरलितावतंसोत्पला सलज्जा चलद्विलोचनान्तेन तामतर्जयत् ।
अवादीच्च तं राजहंसम्-अहो महानुभाव, सर्वथाश्चर्यहेतुरसि । तथाहि
द्रष्टव्यानुरूपं रूपम्, महाश्चर्यगर्भाः प्रपञ्चितवाच्या वाचः, सूचितसंस्कारातिरेको विवेकः, सौजन्याश्रयः प्रश्रयः, निष्कारणोपकारधात्री मैत्री।
तत्त्वमनेकधा जनितविस्मयो बहु प्रष्टव्योऽसि । किं तु प्रस्तुतं पृच्छामः । कथय कोऽयमात्मरूपसम्भावितकंदर्पदर्पदावानलो नलो नाम ।
यस्यैतानि मन्दरमथन क्षणक्षुभितक्षीरसागरतरङ्गभ्रमभ्रान्ति:५ भ्रमन्ति यशांसि ।
दमयन्ती तु तस्या:-कोष्णमित्यादिवादिन्याः सख्या: विलक्ष-वीक्षापन्नं अनयाऽपि मम स्मरविकारावगमात् तस्य भावो वैलक्ष्यं तेन सह-युक्तं यत् स्मितं-ईषद्धास्यं तदेव उत्तरं-प्रतिवचः कल्पयन्ती-रचयन्ती अब्रुवाणैव शनैः-मन्दं शिरःकम्पेन तरलितं-अन्दोलितं अवतंसोत्पलं-शेखरीकृतकमलं यया सा, ईदृशी सलज्जा-तद्वाक्यश्रवणात् हीणा सती चलन् यो विलोचनान्त:-नेत्रप्रान्तस्तेन तां-सखीमतर्जयत्-निरभर्स्यत् ।
च-पुनस्तं-हंसमवादीत् । अहो-विस्मये, हे महानुभाव !-महाप्रभाव ! सर्वथासर्वप्रकारेण त्वं आश्चर्यस्य हेतु:-कारणमसि, भवता दर्शनादाश्चर्यं जायत इत्यर्थः ।
तथाहीति । उक्तमेव दृढीकरोति
हे हंस ! तव रूपं-आकारः द्रष्टव्यस्य-द्रष्टुं योग्यस्य वस्तुनः अनुरूपं-सदृशं, यथा अन्यदपि द्रष्टव्यं वस्तु साभिलाषं वीक्ष्यते तथा त्वद्रूपमपि । तथा त्वदीयाः प्रपञ्चितंविस्तारितं वाच्यं-वक्तव्यं याभिस्ता ईदृश्यो वाचो महाश्चर्यगर्भाः-महत् आश्चर्यं गर्भे-मध्ये यासां तास्तथाविधाः सन्ति । तथा सूचितः-दर्शितः संस्कारस्य-भावनाख्यस्य मानसकर्मणो वा अतिरेक:-आधिक्यं येन ईदृशस्तव विवेक:-सदसद्विवेचनम् । यदनेकार्थः-"संस्कारः
१. अन्येषु अनू. ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org