SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २२५ तृतीय उवासः निजकर्मणः सफलतां मन्यमानेनोच्छ्वसितमिव मलयानिलेन, चिरकालोपलब्धश्लाघ्याधारतया' हसितमिव रूपसंपदा, विलसितमिवर लावण्यलक्ष्म्या, प्रनृत्तमिव समस्तस्त्रीलक्षणाधिदेवतया, कलकलितमिव कान्तिकलापश्रिया । ___ अथ-अनन्तरं बहोः कालात्-चिरात् अनुरूपं-योग्यं प्रौढं-प्रगल्भं यत्प्रहरणंदमयन्तीलक्षणमायुधं तस्य प्राप्त्या प्रीतं-तुष्टं हृदयं-मनो यस्य स तेन, कुसुमसायकेनकामेन आस्फोटितमिव समुल्लसितमिव । अन्योऽपि यश्चिरात् किञ्चिदिष्टं लभेत तदा स समुल्लसति, तथा कामेनाऽपि दमयन्तीलाभात् समुल्लसितम् । किम्भूतेन कामेन ? सकलस्य-समस्तस्य जगतः-विश्वस्य विजये-वशीकरणे यो व्यवसाय:-उद्यमस्तत्र सहसाअविमर्शात्मकेन बलेन वर्तत इति । साहसिकस्तेजः "ओजः सहोम्भसा वर्तते ठक्" [पा० सू० ४।४।२७] इति ठक् । यद्वा, साहसं-धाष्ट्यं विद्यते यस्याऽसौ साहसी इनन्तस्ततः "स्वार्थे कः" [ ] साहसिकस्तेन । तता शृङ्गाररसेन स्फूर्जितमिव-विलसितमिव । किम्भूतेन ? चिरात्-बहुना कालेन उचितः-योग्यो य आश्रयः-दमयन्तीलक्षणं स्थानं तस्य लाभेन प्राप्त्या मुदितं-हृष्टं मनो यस्याऽसौ तेन । यथाऽहं दमयन्तीमाश्रयिष्यामीति हृष्टं मनसा । तथा वसन्तमासेन वल्गितमिव-कूदितमिव । किम्भूतेन ? शुचीनि-धवलानि यानि काशकुसुमानि तदानीमेव तेषां सम्भवात्, तान्येव हास्यं यस्याऽसौ शुचिकाशकुसुमहास्यस्तेन । पुन: किम्भूतेन ? योग्यं-स्वस्योचितं यत्सहकारिकारणं दमयन्तीरूपं, यथा वसन्तेन काम उद्दीप्यते तथा दमयन्त्यापि आलम्बनरूपत्वात् तस्याः तस्य उपालम्भः-२ प्राप्तिस्तेन पूर्णः मनोरथ:-अभिलाषः कामोद्दीपनरूपो यस्य स तेन । मुख्येनाऽपि कारणेन सहकारिकारणं विना कार्यभुत्पादयितुं दुःशकं, तेन दमयन्तीरूपं सहकारिकारणं प्राप्य पूर्णमनोरथः सन् वसन्तो वल्गतीति । तथा निजकर्मणः-विरहवेदनोत्पादकतारूपस्य सफलतां-कृतकृत्यतां मन्यमानेन-जानता मलयानिलेन-मलयवायुना उच्छ्वसितमिव । मलयानिलेन ज्ञातं यदीयं दमयन्ती समुत्पन्ना तर्हि अस्याः विरहव्यथां जनयित्वा स्वकर्मणः साफल्यं प्राप्स्यामीति उच्छ्वसितम् । तथा चिरकालेन उपलब्धः-प्राप्तः श्लाघ्यः आधारःदमयन्तीरूपो यया सा, ईदृश्या रूपसम्पदा हसितमिव-रूपसम्पदा व्यकि, इयं तं अनेहसं काऽपि तादृश्यभूद् यामहं संश्रयामि, अथेयं दमयन्ती चेज्जाता तर्हि अहं एतामाश्रयिष्यामीति हर्षेण हसितम् । अन्योऽपि आश्रयलाभात् हृष्टः सन् हसतीति । तथा लावण्यलक्ष्म्या-सौन्दर्यश्रिया विलसितमिव । तथा समस्तानां स्त्रीलक्षणानां अधिदेवतया १. अथाऽहं अनू. । २. उपलम्भः अनू. । ३. उच्छ्वसितिमिव-उल्लसितामिव अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy