SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २२४ दमयन्ती-कथा-चम्पू: अपहार्षीत्-मा अपहरतु, इति-हेतोः अपहृतः-कन्यया गृहीतः एकैकः सारगुणो येषां ते, ईदृग्विधाः सभया नमस्यन्त इव । अन्यस्याऽपि कस्यचित् किञ्चित्सारवस्तु केनचित् बलवताऽपहृतं भवति तदा अन्यवस्तुरक्षायै स तं सभयो नमस्यन् पुष्पादिभिस्तत्पूजां कुरुते तथैते देवा अपि । वस्तुतस्तु तद्भाग्यादेव नभसः पुष्पवृष्टिर्बभूव, परं तत्र कविरित्थमुत्प्रेक्षां चकार-मा स्म अपहार्षीदिति । “अत्र मा शब्देन निषेध उच्यते, स्मशब्देन त्रास एव द्योत्यते" इति क्रियारत्नसमुच्चये [ ]। तथा अप्सरसः-देवाङ्गनाः दिवि-आकाशे ननृतुःअनृत्यन् । उत्प्रेक्ष्यते, स्वकान्तिरेव-निजदेहदीप्तिरेव यत्सर्वस्वं-सर्वधनं तस्य यो अपहार:अपहरणं तस्य यद्भयं तस्मादिव माऽस्माकं कान्तिसर्वस्वमियमपहरतु, इति भीत्या ननृतुः । नर्त्तनेन हि प्रसन्ना भविष्यतीति, ततो न अपहरिष्यतीति भावः । तथा सुरभयः-सौरभ्यवन्तः समाः-अनुकूलाः समीरणाः परित:-सर्वत, परिबभ्रमुः-परिभ्रान्ताः। उत्प्रेक्ष्यते, किं अस्याः कन्याया सम-तुल्यं, अन्यदपि कन्यारत्नमुत्पन्नमित्यन्विष्यन्त इव-विलोकयन्त इव, कन्यारत्नाऽन्वेषिणो हि सुरभयः-सौरभ्यवन्तः समाः-सश्रीकाश्च काम्या भवन्ति । किं बहुना - अमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् । जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ २५ ॥ किम्बहुना-किं बहूक्तेन अमन्देति । वृत्तम् । तस्याः-दमयन्त्या जन्मनि उत्सव:-महस्तस्मिन् जगत्पीतं-आस्वादितं अमृतं येन ईदृशमिव अभवत् । पीतामृतत्वस्यैव स्वरूपमाह-किम्भूतं जगत् ? अमन्दः-अतुच्छ: आनन्दस्य-प्रमोदस्य निष्पन्दः-चेष्टा यस्य तत् । तथा अपास्तः-मुक्तः अन्यक्रियायाः जन्मोत्सववीक्षणात् अपरकर्मणः क्रम:-परिपाटी येन तत् । सर्वोऽपि लोके जन्मोत्सवमेव वीक्ष्यते, तेन अन्यत्कर्म कुरुत इत्यर्थः । अन्योऽपि हि यः पीतामृतो भवति स अमन्दानन्दमयो भवति । अमृतपानात् अन्यां क्रियां च कामपि न कुरुते तथेदं जगदपि ॥ २५ ॥ अथ बहोः कालादनुरूपप्रौढप्रहरणप्राप्तिप्रीतहृदयेनास्फोटितमिव सकलजगद्विजयव्यवसायसाहसिकेन कुसुमसायकेन, चिरादुचिताश्रयलाभ मुदितमनसा स्फूर्जितमिव शृङ्गाररसेन, शुचिकाशकुसुमहास्येन योग्यसहकारिकारणोयलम्भपूर्णमनोरथेन वल्पितमिव वसन्तमासेन, १. अपि नास्ति अंनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy