________________
२२२
दमयन्ती-कथा-चम्पू: तथाहीति । द्विगुणं प्रियत्वमेव दर्शयति
सेति । सा-प्रियङ्गमञ्जरी तस्य-प्रतीतस्य भूपतेः-भीमस्य आह्लादं-आनन्दमकरोत् । या ह्यतिशयेन प्रिया भवति सैवानन्दं दृष्टा सती जनयतीति भावः । किम्भूता सा? समीपे स्थिता-अवस्थिता ज्येष्ठाः-वृद्धस्त्रियो ज्ञातप्रसवस्वरूपा यस्याः सा । तथा पयसा-क्षीरेण पूर्णी-भृतौ पयोधरौ-स्तनौ यस्याः सा । केव ? अग्रप्रावृडिव-अग्रं प्रावृषो अग्रप्रावृट-आषाढवर्षाः, यथा अग्रप्रावृट् भुवः परमोपकारिणीति भुवः पत्युराह्लादं करोति । किम्भूता अग्रप्रावृट् ? समीपे स्थितो ज्येष्ठ:-शुक्रो मासो यस्याः सा, तथा पयसा-जलेन पूर्णः पयोधरः-मेघो यस्याः सा ॥२३ ॥
एवमविरतविविधवाञ्छोत्सवाविच्छेदकर्तरि भर्तरि, संज्ञयैवाज्ञाकारिण्यपारे परिवारे?, बहुभङ्गिभाग्योपभोग क्रमेणातिक्रामति कुत्रचित्काले३, कालकलाकुशलश्लाघनीये पूर्णप्राये प्रसवसमये, विलीनजात्यशातकुम्भभासि भास्वत्युदयमारोहति, हततिमिरासु दिक्षु क्षणमेकं सा प्रसववेदनाव्यतिकरमन्वभूत ।
एवं-अमुना प्रकारेण अविरतं-निरन्तरं विविधवाञ्छोत्सवानां-अनेकविधाभिलाषरुपोद्भवानां अविच्छेदकर्ता-पूरकस्तथाविधे भर्तरि-प्रिये सति । तथा संज्ञयैवभ्रूकराङ गुलिचालनादिरूपसङ्केतेनैव अपारे-अपर्यन्ते परिवारे-परिजने आज्ञां-आदेशं करोतीत्येवंशील आज्ञाकारी तस्मिन् सति, वक्तुमपि प्रयासं न कारयति, अपितु संज्ञयैव सर्व आदेशं करोतीत्यर्थः। तथा बहुभङ्ग्या-अनेकविच्छित्या भाग्यस्य शुभकर्मणो य उपभोग:-अनुभवस्तस्य क्रमेण-परिपाट्या कुत्रचित् काले-कस्मिंश्चित्समये अतिक्रामतिगच्छति सति । तथा कालकलासु-कालविशेषेषु त्रुटिलवमुहूर्तादि रूपेषु ये कुशलाःप्रवीणास्तेषां तैर्वा श्लाघनीयः-प्रशंस्यस्तस्मिन् प्रसवसमये-जन्मकाले पूर्णप्राये स्तोकमपूर्णे सति । तथा भास्वति-रवौ उदयं-उदयाचलमारोहति-आश्रयति सति । किम्भूते रवौ ? विलीनं-द्रवीभूतं जात्यं सदा करोत्पन्नं पत् शातकुम्भं-स्वर्णं तद्वत् पिङ्गा-पिङ्गला भाःकान्तिर्यस्य स तस्मिन् । “उदयः पर्वतोन्नत्योः" [३५१२] इत्यनेकार्थः । तथा दिक्षु हतानि-ध्वस्तानि तिमिराणि यत्र ईदृशीषु सप्रकाशासु सतीषु सा प्रियङ्गमञ्जरी एक क्षणंकालविशेषं नाडिकाषष्ठ्यंशं मुहूर्तं वा यावत् प्रसववेदनायाः-प्रसवव्यथायाः व्यतिकरंसम्पर्कं अन्वभूत-अनुबभूव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org