SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः २२१ मलयमारुतस्तस्य बहलं-निविडं स्पर्श बहु अमन्यत-बहुमानं आदरमदात् । पुनः पुनः तत्स्पर्श ववांछेत्यर्थः । किम्भूतस्य मारुतस्य ? अभ्यर्णे राज्याः समीपे अवकीर्णानि क्षिप्तानि विकसितकमलवनेभ्यो निस्यन्दिनः-क्षरणशीला मकरन्दबिन्दवो येन स तथा तस्य, कमलमधुबिन्दुवर्षिण इत्यर्थः । तथा चतुर्णा उदधीनां लावण्यरसं-लवणभावस्वादं आस्वादयितुं-अनुभवितुं चिन्तयाञ्चकार-व्यामृशत् । यदुत अहं तल्लावण्यरसमास्वादयामीति ववांछेत्यर्थः । तथा अतुच्छं-अद्भुतं अशेष-समस्तं अमन्दः-अनल्पो यो मन्दर एव-मेरुरेव मन्थानः-मन्थदण्डस्तेन यन्मथनं-विलोडनं तेनोत्पन्नं-जातं अमृतं-सुधां आतृप्ति-तृप्तिपर्यन्तं पातुमभ्यवाञ्छत् आचकांक्ष ।। इत्यनेकधोत्पन्नगर्भप्रभावानुरूप दोहदसंपत्तिसंपन्नाधिककमनीयकान्तिरुल्लसद्बहलमृगमदजललिखितविचित्रपत्रभङ्गभव्यविपुलकपोलमण्डलेन मुखेन शशाङ्कमन्तः स्फुरत्कलङ्कमुपहसन्ती द्विगुणमवनिपतेस्तस्य प्रिया प्रियंगुमञ्जरी बभूव ।। इति-अमुना प्रकारेण अनेकधा-बहुधा उत्पन्नानि गर्भप्रभावेण-गर्भानुभावेन अनुरूपाणि-योग्यानि अद्भुतानि यानि दोहदानि-दौ«दानि तेषां या सम्पत्तिः-सम्पत् तया सम्पन्ना-युक्ता प्रियङ्गमञ्जरी तस्य-पूर्वोक्तस्य अवनिपतेः-भीमस्य द्विगुणं-पूर्वस्मात् प्रियत्वादधिकं यथा भवति तथा प्रिया-वल्लभा बभूव । किम्भूता ? अधिका कमनीया कान्तिः-देहदीप्तिर्यस्याः सा, तथा मुखेन अन्तः-मध्ये स्फुरन्-विलसन् कलङ्कः-लक्ष्म यस्य स, तथाविधं शशाङ्क:-चन्द्रमुपहसन्ती-जयन्ती, मुखे कलङ्कसाम्यमाह । किम्भूतेन मुखेन ? उल्लसत्-विलसद् बहलं-निविडं यन्मृगमदजलं-कस्तूरिकाद्रवस्तेन लिखिता-विन्यस्ता विचित्रा-नानाविधा ये पत्रभङ्गाः-पत्रवल्लयस्तैर्भव्यं-मनोहरं विपुलं-विशालं कपोलमण्डलं-गण्डस्थलं यस्मिंस्तत्तेन । गर्भानुभावात् पाण्डुरस्य मुखस्य चन्द्रः मृगमदपत्रभङ्गानां च कलङ्कमुपमानम् । तथाहि - सा समीपस्थितज्येष्ठा पयःपूर्णपयोधरा । अग्रप्रावृडिवाह्लादमकरोत्तस्य भूपते:३ ॥ २३ ॥ १. व्यमृशत् अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy