SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः १८३ यदर्कमण्डलं तस्य मध्ये वर्तितुं शीलमस्येति तरुणार्कमण्डलमध्यवर्ती, प्रणतानां - कायवाङ्मनोभिर्नम्राणां प्रियं करोतीति प्रणतप्रियङ्करो भगवान् शङ्करो दृष्ट: । तत्-तस्माद्धेतोः एष ब्राह्मणः संवदितुं शीलं ययौस्तौ संवादिनौ, तयोः संवादिनोः परस्परसंगतयोरनयोः स्वप्नयोरर्थपरामर्शं-फलविचारणां करोतु । कीदृशः शम्भुरदर्शीत्याह - आत्मानं अनुहर्तुं - अनुकर्तुं शीलमस्येति आत्मानुहारी तेन आत्मप्रतिमेन शक्तिमता - सामर्थ्यवता विनायकेनहेरम्बेण शक्तिशस्त्रभृता स्वामिना च षण्मुखेन अनुगम्यमान:- अनुत्रियमाण: पुरतः शम्भुः पश्चाद्धेरम्बस्वामिनौ, शिवोऽपि विगतनायक:- सकललोकस्वामी शक्तिमांश्च-शिवशक्त्योरविनाभावसम्बन्धात्, इत्यात्मसादृश्यम् । पुनः किम्भूतः । दग्धः कामः - स्मरो येन स दग्धकामः, तथा पूरितो भक्तानां काम- इच्छा येन सः । च शब्दो विरोधद्योतकः । यो हि दग्धकामः स पूरितकामः कथं स्यात् ? तथा एकः - मुख्यः कपर्द :- जटाबन्धो यस्य स एककपर्दः, तथा ईश्वरः - भगवान् । विरोधे तु एकः संख्यां कपर्द :- वराहो यस्य स तथाविधो यो भवति स ईश्वर:-धनवान् कथं स्यात् ? तथा सह सोमेन - इन्दुना वर्तत इति ससोम:तथा सह उमया वर्तत इति सोमः, न सोमः असोमः - पार्वत्या रहितः । विरोधे तु यः सोमसहितो भवति स सोमरहितः कथं स्यात् ? तथा विगतो भवो येभ्यस्ते विभवाःमुक्तात्मान: तै: सह वर्तत इति सविभवः, भगवत्सा योग्यं हि मुक्तिरिति वृद्धाः, तथा विगता भूति: - भस्म यस्य स विभूतिः, न विभूतिरविभूतिः - भस्मसहित इत्यर्थः । विरोधे तु यः सविभवः - सधनो भवति स विशिष्टा भूतिः - लक्ष्मीस्तया रहितः कथं स्यात् ? तथा पिनाकं - धनुरस्यास्तीति पिनाकी, तथा अपीति - भिन्नं नाकी - स्वर्गी | यदि वा "चप सान्त्वने" [ ] चपयन्ति सान्त्वयन्ति अनुनयन्ति अवश्यमिति चापिन:- प्रसादका: नाकिनो यस्य स चापिनाकी । विरोधे तु यः पिनाकी भवति स पिनाकरहितः कथं स्यात् ? अथ फलं कथयन्नाह सोऽपि 'देव, दिष्ट्या वर्धसे । अनल्पपुण्यप्राप्यमेतत्तरुणेन्दुमौलेरालोकनम्, चिराद' वाप्स्यति देवी सकलराजचक्रचूडामणिकल्पमशेषभुवनभ्रान्तशुभ्रयश: पिण्डडिण्डिममपत्यम्' इत्यनेकधा तयोराशंसांचकार । सोऽपीति । सोऽपि - पुरोहितस्तयो: - दम्पत्योरिति अनेकधाफलपूर्वकं आशंसांचकार-कथयामास । इतीति किम् ? हे देव ! -राजन् ! दिष्ट्या - आनन्देन वर्धसे, तथा एतत् तरुण:-नव इन्दुमौलौ यस्य स तस्य तरुणेन्दुमौले:- शम्भोरालोकनं दर्शनं अनल्पैः Jain Education International For Personal & Private Use Only - www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy