SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्चासः १७७ अवस्थानं यस्य स तेन, पद्मासनत्वात् । किम्भूतेन विष्णुना ? कमलाया:-श्रियोधिवास:आश्रयस्तेन, तत्पतित्वात् । तथा ईदृशेन ललाटलोचनेन चन्द्रमसा य भासमानः-दीप्यमानः । किम्भूतेन ललाटलोचनेन ? कृशानुरूपेण-वहिस्वरूपेण । किम्भूतेन चन्द्रेण ? कृशेन-क्षामेण तता अनुरूपेण-अनुगतरूपेण, अविनाभावसम्बद्धमूर्तिना। कृशश्चासावनुरूपश्चेति समासः । तथा ईदृशं कर्णे कुवलयं-नीलोत्पलं, करे कपालं च-नरशिरोऽस्थि कलयन्-बिभ्रत् । कीदृशं कुवलयम् ? विकचं-सविकासं, कपालं तु विगताः कचा:-केशा अस्मादिति विकचम् । तथा मनसा अहिंसाया:-दयाया आटोपं-आवेशं बिभ्राणः-दधानः, शिरसा चमूर्जा अहिं-सर्वं साटोपं-सस्फट बिभ्राणः । तथा ईदृशं नयनाचिः-नेत्रज्वालां चिताभस्म च समुद्वहन्-धारयन् । किम्भूतं नयनाचिः ? प्रोज्ज्वलत्-दीप्यमानं, भस्म तु प्रकर्षेण उज्ज्वलंश्वेतम् । तथा ईदृशेन स्कन्धेन-अंशेन कन्दरार्धेन च-ग्रीवार्धेन विराजमान:-शोभमानः । किम्भूतेन स्कन्धेन ? अधिगतं-प्राप्तं कङ्कालं-शरीरास्थि अर्थात् खट्वाङ्गं येन स तथा तेन, कन्दरार्धेन तु कालेन-कृष्णं', स कालकूटत्वात्, अत्र पक्षे अधिकमिति क्रियाविशेषणम् । तथा ईदृशं भुजवनं ईदृशीं च भवानी च दधानः-बिभ्रत् । कीदृशं भुजवनम् ? सालसदृशंसालद्रुमतुल्यं, प्रांशुत्वात् । किम्भूतां भवानीम् ? सालसे-सलीले मन्थरे दृशौ यस्याः सा ताम् । तथा ईदृशं त्रिशूलं ईदृशीं च मन्दाकिनी-गङ्गां धारयन् । किम्भूतं त्रिशूलम् ? सर्वान् दानवान् वारयति यत्तत्तथाभूतम् । किम्भूतां गङ्गाम् ? सर्वदा-नित्यं नवा-अविच्छा या वा:पाथो यस्या सा ताम् । यद्वा, सर्वं ददतीतिरे सर्वदा आनयन्त इति आनवाः तथोक्ता वारोऽस्याः, एतेन कामुकत्वेन नर्मवचनादात्मजलानां स्तुत्यत्वोक्तिः । सापि 'प्रसादोऽयम्' इत्यभिधाय स्वप्न एव प्रणामपर्यस्तमस्तका स्तुतिमकरोत् । साऽपीति । साऽपि-प्रियङ्गमञ्जरी प्रसादोऽयमित्यभिधाय स्वप्न एव प्रणामार्थनमस्कारार्थं पर्यस्तं-नीचैः कृतं मस्तकं यया सा, तथाभूता सती स्तुति-वर्णनामकरोत् । तामेवाह तुभ्यं नमो नमल्लोकशोकसन्तापहारिणे । व्यर्थीकृतान्धकारातिदम्भारम्भाय शम्भवे ॥१॥ १. कृष्णेन अनू. | २. ददातीति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy