________________
तृतीय उच्छ्वासः
१७५ अन्यापि कामिनी कुम्भं शिरसि धृत्वा अम्भोभरणार्थं अम्भोधिपुलिनं याति तथेयं यामिनीति । किम्भूतायां यामिन्याम् ? तरुण:-नवो यः कपोतो रक्तलोचनस्तस्य या कन्धरायां-ग्रीवायां रोमराजि:-तनूरुहश्रेणिस्तद्वद् राजतेऽवश्यमिति । तरुणकपोतकन्धरारोमराजिराजिनी तस्यां धूसरायामित्यर्थः । पुनः कासु सतीषु ? अखिलं-सकलं यत्कमलखण्डं तत्र या कमलिन्यः-पद्मिन्यस्तासां विनिद्रायमाणानि विकसन्ति यानि कमलकु ड्मलानि- पद्ममुकुलानि तान्येव विलोचनानि तेषु कज्जलरेखाष्विवअञ्जनरेखाष्विव भ्रमरराजिषु उल्लसन्तीषु-विलसन्तीषु सतीषु । पद्मिनीनां स्त्रिय उपमानं, कुड्मलानां नेत्रोपमानं, भ्रमरराजे: कज्जलरेखोपमानम् । तथा राजीवानां-कमलानां या राजि:-श्रेणिस्तस्या यः पुञ्जः-निकरस्तस्य निकुञ्ज गहने हंसेषु शिञ्जानं शब्दं कुर्वद् यन्मञ्जीरहंसकं तस्य यो रवस्तद्वन्मञ्जुलं-मधुरं यथा भवति तथा उन्नदत्सु-कूजत्सु सत्सु । किम्भूतेषु हंसेषु ? शरदबलाहकवत्-शरदभ्रवद्वलक्षा-धवला ये पक्षाः-पक्षतयस्तेषां यो विक्षेपः-चालनं तेन यः पवन:-वायुस्तेन तालितानि-चालितानि तरुणानि-नवानि तामरसानि यैस्ते तथाविधेषु, तथा दीर्घिकाणां वापीनां अवतंसा इव-शेखरा इव विभूषकत्वाप्येते तथा तेषु । च-पुनः सारसकुले रौप्यः-रूप्यमयो या घर्घर्यः-किङ्किणिकाः “घृ सेचने, [पा० धा० ९३८] औणादिक: तथा झझरः-वाद्यविशेषस्तेषां य आरव:-शब्दस्तद्वत् सरसं-मधुरं यथा भवति तथा केंकारयति-केंकारं शब्दविशेषं कुर्वति सति । उत्प्रेक्ष्यते, चक्रवाकमिथुनस्य रात्रौ वियुक्तस्य मेलक:-संयोगस्तस्मिन् मङ्गलमृदङ्ग इव-मङ्गलार्थमरुज इव । यथा वधूवरयोः संयोगे मङ्गलमृदङ्गो वाद्यते तथा वियुक्तचक्रवाक्योः संयोगे सारससखा एव मङ्गलमृदङ्गा इति । तथा एवंविधे मरुति-वायौ प्रभातसुरतश्रमेण खिन्ना:-श्रान्ताः याः सुन्दर्यस्तासां कुचमण्डले प्रस्खलति सति, अत्युन्नतत्वात् स्खलनम् । किम्भूते मरुति ? अवश्याय जलस्य-हिमाम्भसः शिशिराः शीकरा:-कणा विद्यन्ते यस्मिन् स तथा तस्मिन्, तथा मन्दं-शनैरन्दोलिता:-कम्पिता विनिद्रा:-विकस्वराः या द्रुममञ्जर्यस्तासां रजःकणेनपरागलवेन कषायितः-सुरभितस्तस्मिन्, “कषायः सुरभौ रसे। रागवस्तुनि निर्यासे क्रोधादिषु विलेपने । वर्णे" [तृ० ४१३-४१४] इत्यनेकार्थः। पुनः किम्भूते ? तम एव सर्पस्तेन पूर्वं संदष्टं-भक्षितं पश्चादुज्जीवितं आगतप्राणं यज्जगत् तस्य निश्वास इवाचरन् यः स तथा तस्मिन् । सर्पदष्टो यदोज्जीवति तदा नि:श्वासान् मुञ्चति, तथेद जगदपि तमोऽहिना दष्टोज्जीवितं सन्निःश्वासान् मुञ्चतीव । तथा रागवति-आरक्ते सवितरि-रवौ गगनलक्ष्म्याःनभोरमायाः तिमिरपटलमेव पटी-वासस्तां हरति-अपनयति सति । किम्भूते रवौ ? मनोहारिणः- रम्या ये हारीता:-शुकाभाः पक्षिणस्तद्वद् हरिता-नीला हया यस्य स तस्मिन् । पुनः किम्भूते ? करैः-किरणैः परामृष्टः-संस्पृष्टः पयोधरः-मेघो येन स तस्मिन् । अन्योऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org