________________
द्वितीय उछ्वासः
१६१ तेन घन:-निविडो यः श्रमः-खेदस्तस्य प्रशमनार्थ-शान्त्यर्थं वारुणी सुरां प्रतिपानार्थमिव । श्रान्तस्य खलु सुरा पाय्यते इत्यभिप्रायेणेव तेषां तत्र नयनमिति । पुनः कासु सतीषु ? पादपच्छायासु पूर्वां दिशं अभिधावमानासु-अभिमुखं गच्छन्तीषु' । उत्प्रेक्ष्यते, दिवसभर्तरिदिनप्रिये सूर्ये अपरस्यां दिशि, पक्षे, अपरस्यां अङ्गनायां, आसक्ते-लग्ने सति शोकभरादिव प्रियान्यासक्तिसम्भूताद् दुःखातिशयादिव तमसः-अन्धकारस्य । पक्षे, तमसःमोहस्य पटलेन-वृन्देन आपूर्यमाणां-भ्रियभाणां पूर्वां दिशं । पक्षे, पूर्वां-पुराङ्गीकृतां । स्त्रियं आश्वासयितुमिव-धैर्यमापादयितुमिव । यथा स्वस्था भव पुनरेष्यति पतिरिति । यथा अन्या काचित्सखी भर्तरि अन्यासक्ते दुःखितां पूर्वां स्त्रियमाश्वासयितुं याति तथैताश्छाया अपि । पुनः केषु सत्सु ? तरणे:-सूर्याद् गोमण्डलेषु मन्दं-शनैरपवर्त्तमानेषु-वलमानेषु सत्सु । किम्भूतात्तरणे: ? हारीता:-शुकाभाः पक्षिणस्तद्वत् हरिताः-नीला ये हरयः-अश्वास्तैर्हरतिगच्छत्यभीक्ष्णमिति हारीतहरितहरिहारी तस्मात् । किम्भूतात् अरण्यान्तरात् ? हारीतैःशुकाभपक्षिभिस्तथा हरितैः-शाद्वलैस्तथा हरिभिः-वानरैश्च हारिणः-मनोज्ञात् । पुनः कस्मिन् सति ? पश्चिमाशाया मुखे अलोहितं लोहितं भवल्लोहिता यत् तस्मिन् सति । "लोहितादिडाज्भ्यः क्यषिति [पा० सू० ३।१।१३] क्यष् शतृप्रत्यये रूपम् । उत्प्रेक्ष्यते, अस्ताचलस्य या वनदेवता तथा दत्तो यो रक्तचन्दनाघः अर्थाद्रवेरिव तस्य सलिलप्लवेनपानीयप्रवाहेन प्लाव्यमान इव-क्षाल्यमान इव, पश्चिमाशां गते रवौ वारुणीप्रकृत्यैव रक्ता भवति तत्र कविरियमुत्प्रेक्षा । पुनः केषु सत्सु ? वारविलासिनीभिः-वाराङ्गनाभिः कपोलमण्डल्याः-कपोलबिम्बस्य मण्डनाय-भूषणाय पत्रभङ्गेषु-विलेपनचित्रेषु पत्रवल्लीसंज्ञेषु पर्णानां भञ्जनेषु च क्रियमाणेषु सत्सु । "मण्डलो बिम्बदेशयोः । भुजङ्गभेदे परिधौ शुनि द्वादशराजके" इत्यनेकार्थः [३।७११] । मण्डलशब्दस्त्रिलिङ्ग । पुनः कस्मिन् सति? पादपैः-वृक्षैः पत्राणां-पर्णानां संकोचकर्मणि-निमीलविधौ प्रारब्धे-विहिते सति, रात्रौ पत्राणि संकुचन्ति । उत्प्रेक्ष्यते, भयेनेव-भीत्येव, भीतो हि संकुचत्येव । पुन: केषु सत्सु ? कमलिनीभिः-पद्मिनीभिः कमलमुकुलकेषु-पद्मकुड्मलेषु विधीयमानेषु सत्सु, रात्रौ तेषां संकोचात् । किम्भूताभिः कमलिनीभिः ? उत्प्रेक्ष्यते, विरहेण-रविवियोगेन विधुराभि:पीडिताभिः सतीभिः विघटिष्यमाणा-वियुज्यमाना या चक्रवाककामिनी-चक्रवाकी तस्याः करुणं-दयोत्पादकं यत्कूजितं तस्य व्याजेन-दम्भेन दिवसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव-निषेधयन्तीभिरिव, मा याहि अस्तगिरिशिखरमिति । किम्भूतेषु कमलमुकुलेषु? उत्प्रेक्ष्यते, प्रार्थना-माऽस्मात् मुञ्च इत्येवंरूपा याञ्चा तदर्थं प्रणामाञ्जलिपुटा इव नमस्कृतये संयोजितकुब्जितकरपल्लवा इव यानि तानि तथा तेषु, तेऽपि एतदाकारा एव
१. गच्छन्तीषु सतीषु अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org