________________
१५७
द्वितीय उच्छ्वासः
प्रसज्येतेति । किम्भूता तिलकमञ्जरी ? अलिकं ललाटं आलय:-स्थानं यस्याः सा
अलिका तया ।
किंबहुना - किं बहूक्तेन
तस्याः कान्तिनिरुद्धमुग्धहरिणीलीलाचलच्चक्षुषस्तारुण्यस्य भरादनालसलसल्लावण्यलक्ष्मीरसः । लुभ्यल्लोकविलोचनाञ्जलिपुटै: पेपीयमानोऽपि सनङ्गेष्वेव न माति सुन्दरतरो रङ्गस्तरङ्गैरिव ॥ ३० ॥
तस्या इति । तस्या:- प्रियङ्कुमञ्जर्याः तारुण्यस्य - यौवनस्य भरात्- -अतिशयात् सुन्दरतर:- चारुतर: आ-समन्तात् अलसः - आलसः, न आलसः अनालसः, ईदृशो लसन्विलसन् यो लावण्यलक्ष्म्या :- सौन्दर्यश्रियो रसः - शृङ्गाररूपः लुभ्यन्ति तत्राभिलाषवन्ति भवन्ति । यानि लोकविलोचनानि - युवजननेत्राणि तान्येव अञ्जलिपुटाः- हस्तन्यासविशेषास्तैः : कृत्वा पेपीय्यमानोऽपि - अतिशयेन पीयमानोऽपि सन्नङ्गेषु शरीरावयवेष्वेव न माति, किन्तु तरङ्गै रङ्गन्-विलसन्निव । रसो हि भरादजिह्मो लसति, तरङ्गैश्व रङ्गति । किम्भूतायास्तस्या: ? कान्त्या - स्वीयनेत्रशोभया निरुद्धे - जिते मुग्धहरिण्याः लीलया चलतीतरले चक्षुषी यया सा तस्याः । शार्दूलविक्रीडितम् ॥ ३० ॥
एवमनयोः सकलसंसारसुखरसास्वादमुदितमनसोर्यान्ति दिवसाः ।
एवं अमुना प्रकारेण सकलसंसारसुखरसस्य आस्वादेन - अनुभवनेन मुदितं-सृष्टं मनो ययोस्तौ, तादृशयोरनयो:- प्रियङ्गमञ्जरी भीमयोदिवसा यान्ति - गच्छान्ति ।
कदाचिञ्चटुलतरतरुणषट्चरणचक्रचुम्बनाक्र मणभरभज्यमानमञ्जरीजालगलदमन्दमकरन्दबिन्दुकर्दमिलेषु विविधाङ्गविहंगविहारविदलितदलदन्तुरान्तरालेषु स्मरबन्धुसुगन्धिगन्धवाहवाजि' बाह्यालीषु वरदायाः पुण्यपुलिनंपालिपादपतलेषु रममाणयोः परिणतेन्द्रवारुणारुणकपोलकान्तिरुद्धुषितदेहपिण्डकण्डूयनाकूततरलितकरकिसलया बालकमेकमुदरदेशलग्नपरमपि पृष्ठप्रतिष्ठितमुद्वहन्ती कापि कपिकुटुम्बिनी दृष्टिपथमवातरत् ।
तां चावलोक्यं २ चेतस्यास्पदमकरोत्तयोरनपत्ययोर्विषमविषाद
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org