________________
१५४
दमयन्ती-कथा-चम्पू: वीक्षणं । न सन्मार्गः-सदाचारस्तास्मिन् लग्न:-प्रवृत्तस्तस्य । तथा पुनः-भूयः वसु-द्रव्यं भजतीति वसुभाक् तस्य धनिनो जनस्य ग्रहणावलोकनं-धारणेक्षणं अभूत् इति क्रिया सर्वत्र योज्या ।
किं बहुना
देवो दक्षिणदिङ मुखस्य तिलकः कर्णाटकान्ताकुचक्रीडाशैलमृगः प्रतापकदलीकन्द:२ स किं वर्ण्यते । यस्यारातिकरीन्द्रकुम्भरुधिरक्लिन्नासिदंष्ट्राङ कुरा
शौर्यश्रीर्भुजदण्डमण्डपतले सिंहीव विश्राम्यति ॥ २९ ॥ किं बहुना-किं बहूक्तेन
देव इति । शार्दूलविक्रीडितम् । स देवः-भीमः किं वर्ण्यते-किं स्तूयते वागगोचरगुणमयत्वात् । किम्भूतः ? दक्षिणदिगेव मुखं तस्य तिलक:-तिलकोपमः, यथा तिलकेन कृत्वा मुखं शोभते तथा तेन दक्षिणदिगिति । तथा कर्णाटकान्तानांकर्णाटदेशीयरमणीनां यौ कुचौ तावेव उन्नतत्वकठिनत्वसाम्यात् क्रीडाशैल:-क्रीडागिरिस्तत्र मृग इव यः सः, यथा मृगः क्रीडाशैले क्रीडति तथा तासां कुचयोः खेलतीत्यर्थः। तथा प्रताप एव कदली-रम्भा तस्या कन्द इव-मूलमिव यः सः, यथा कन्दात् कन्दल्या उत्पत्तिस्तथाऽस्मात्प्रतापोत्पत्तिः । यद्वा, प्रताप एव कदली तस्या कन्द इव-मेघ इव यः सः तथाविधः । स इति कः ? यस्य-भीमनपस्य भुजदण्ड एव मण्डपस्तस्य तले-अधोभागे अरातिकरीन्द्राणां-शत्रुगजेन्द्राणां यौ कुम्भौ-द्विपशिर:पिण्डौ तयोविदारणाद् यद् रुधिरं-रक्तं तेन क्लिन्न:-आज़े असिरेव-खड्ग एव दंष्ट्राङ्करो यस्याः सा, ईदृशी शौर्यश्री:-शूरतालक्ष्मी: सिंहीव विश्राम्यति-खेदमपनयति, यथा सिंही गजदारणोद्भूतरक्तक्लिन्नद्रंष्ट्रा मण्डपतले विश्राम्यति तथा यस्य शौर्यश्री जयोर्विश्राम्यतीति । ॥ २९ ॥
तस्य च महीपतेरात्मरूपोपहसित समस्तसुरसुन्दरीसौन्दर्यसारसंपत्तिरकलङ्क कुलकन्दकन्दलीकंदर्पदर्पगजेन्द्रावष्टम्भस्तम्भयष्टिरखिलजननयनकुरङ्गवागुरा रामणीयकपताकायमानोद्भिन्ननवयौवनश्रीः, शृङ्गारस्यागारम्, अवनिर्वनिताविभ्रमाङ्कुराणाम्, आभोगः सौभाग्यभाग्यस्य', रङ्गशाला रागवृत्तनृत्तस्य, सर्वान्तःपुरपुरंध्रि प्रधानभूताऽस्ति प्रिया प्रियङ्गमञ्जरी नाम ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org