________________
द्वितीय उच्छ्वासः
खननम्', कुलीनस्य कन्दस्योन्मूलनारम्भः २, सन्मार्गलग्नस्य पुनर्वसुभाजश्चन्द्रस्यैव ग्रहणालोकनमभूत् ।
तथा यस्य च-राज्ञश्चरणाम्भोजयुगलं-पादपद्मद्वयं नमता जनेन विमलीकियतेनिर्मलीक्रियते, न मज्जनेन न क्षालनेन । एतेन जनानुरागसम्पत्तिः ।
तथा य:-राजा नारीणां स्त्रीणां शृङ्गारं सुरतं रसभेदं मण्डनं वा जनयति । न अरीणां-शत्रूणां शृङ्गारं जनयति । " शृङ्गारो गजमण्डने । सुरते रसभेदे च ।" इत्यनेकार्थः [३।६५०] ।
तथा य:- भूपः आश्रितस्य तच्छरणमुपागतस्य नवं-नव्यं धनं सम्पदं करोति, न बन्धनं-न ग्रहणम् ।
तथा य:-राजा नरमणीनां - उत्कृष्टमनुष्याणां गुणेषु - औदार्यादिषु रज्यते - अनुरक्तो भवति, तद्गुणान् बहुमन्यत इत्यर्थः । न रमणीनां - नारीणां गुणेषु रज्यते, न स्त्रीवश इत्यर्थः । तथा यस्य च - नृपतेर्नमस्यानां - पूज्यानां देवद्विजातीयानां ग्रामेषु नलस्योपाख्यानंभारतप्रतीतं वर्तते, लोपस्य - विनाशस्य उपाख्यानं कथा नैव ।
१५३
तथा यस्य च - भूपतेः राज्ये साक्षरस्य - लिखिताक्षरस्य पुस्तकस्य बन्धःबन्धनमभूत्, न साक्षरस्य - अधीताक्षरस्य जनस्य बन्धः, अन्यायाकरणात् । तथा यस्यनृपस्य राज्ये सगुणस्य - ज्यासहितस्य कार्मुकस्य - धनुषः आकर्षणं कर्णान्तप्रापणं, न सगुणस्य-शौर्यादिगुणसहितस्य जनस्य आकर्षणं- केशाकेशिरूपं युद्धम् । तथा यस्य राज्ये सुवंशभवस्य - शोभनवंशशलाको द्भवस्य छात्रस्य दण्डः - यष्टिः, न शोभनान्वयजातस्य जनस्य दण्डः-दमनम् । तथा यस्य नृपतेः राज्ये शोभनाजातिर्मालती यत्र ईदृशस्य उद्यानविशेषस्य उत्खननं-वृक्षपुष्पपुष्टये आलवालमार्दवाय च उत्कृष्टं खननं गोवर्द्धनमिति प्रतीतं तदभूत्, न शोभनजातेर्विप्रादेर्जनस्योत्खननं - उच्छेदनम्, चाण्डालादितया आपादनम् । तथा यस्य-भूपस्य राज्ये कौ-क्षितौ लीनस्य - आश्रितस्य कन्दस्य - सूरणस्य उन्मूलनारम्भ:- उन्मूलने उद्यमोऽभूत्, न कुलीनस्य अभिजातस्य जनस्य उन्मूलने आरम्भः । तथा यस्य - राज्ञो राज्ये सत् - विद्यमानं मृगस्येदं मार्गं लग्नं-सक्तं संयोगो यस्य स तस्य । यद्वा, सन्- नित्यतान्वितो मार्गो अर्थान्नभस्तस्मिन् लग्नस्य, तथा च पुनः पुनर्वसू - * "पुनर्वसुशब्दः सदा द्विवचनान्त: ' नक्षत्रं भजतीति पुनर्वसुभाक् तस्य तथाविधस्य चन्द्रस्येव ग्रहणं - राहुयोगस्तस्यावलोकनं
11%
** चिह्नान्तर्गतपाठो नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org