SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ १२५ द्वितीय उच्छ्वास: राजाऽपि नलोऽपि विहसन्नेव तेषां - हंसानां मध्ये अन्यतमं हंसं हेलया - विलासेन जग्राह । किम्भूतो राजा ? परिधावितानां - इतस्ततः प्लुतानां विहङ्गानां - अर्थाद्धंसपक्षिणां ग्रहणे - स्वीकारे यः आग्रह: - हठस्तेन व्यग्रः - व्याकुलः समग्रः - निखिल: परिजनो यस्य स । तथा परिहासेन-लीलापूर्वकहास्येन उन्मीलन्ती - विकसन्ती या दन्तकान्तिः - दशनच्छविस्तया स्तबकित:-कर्बुरित अधरपल्लव:- ओष्ठकिसलयं यस्य स तथा विधः श्वेतारुणवर्णयोगात् कर्बुरितत्वम् । किं कुर्वन्तं हंसम् ? उच्चा - उन्नता चटुला - चपला या चरणचारीपादन्यासस्तया या चर्या - गमनं तया चारु यथास्यात्तथा सञ्चरन्तं - गच्छन्तम् । तथा ईषत्मनाक् उत्क्षिप्तौ-उच्चैःकृतौ यौ पक्षौ तयोर्विक्षेपविलासेन विधूननलीलया विहसिता - अधरिता विलासिनीनां - रमणीनां लास्यलीला - नर्त्तनविलासो येन स तम् । तत्पक्षविक्षेपलीलायाः पुरः का विलासिनीनां नर्त्तनलीलेति ? | पुनः किम्भूतं ? उन्नमिता - उच्चैः कृता अग्रग्रीवा-कन्धराग्रभागो येन स तम् । उत्क्षिप्तः स च तेन रक्तकमलगर्भविभ्रमायमाणपाणिपल्लवे, पाण्डुपद्म इव पद्मरागशुक्तितले, क्षणमुदयशैलशोणमाणिक्यशिखरशिलाया 'मिन्दुरिव, व्यराजत' राजहंसो मृदुवाद्यमानरौप्य रे घनघर्घरीजर्जरस्वरेण च कृतस्वस्तिशब्दो विस्पष्टवर्णविशेषमेष राजानमुप श्लोकयाञ्चकार । तेन नलेन रक्तकमलगर्भवत् - शोणपद्ममध्यवद् विभ्रमवान्-विलासवान् भवन् विभ्रमायमाणो य: पाणिपल्लव:- करकिसलयं तस्मिन्, उत्क्षिप्तः - उच्चैर्धृतः स च राजहंसो व्यराजत-शुशुभे । कस्मिन् ? क इव ? पद्मरागमणे :- लोहितमणेः शुक्तितले- शुक्तिकायां पाण्डुपद्म इव-श्वेतकमलमिव । यथा, पद्मरागः शुक्तौ निहित: पाण्डुपद्मो राजते तथाऽयमपि । पद्मशब्दः पुन्नपुंसके । पुनः कस्यां ? क इव ? क्षणं - मुहूर्तं यावत् उदयशैले - उदयाद्रौ शोणमाणिक्यानां-लोहितमणीनां या शिखरशिला तस्यामिन्दुरिव । यथा, इन्दुरुदयाद्रिशोणमणिशिलायां राजते तथाऽयमपि शोभते स्म । पाणिपल्लवस्य पद्मरागशुक्ति: शोणमाणिक्यशिला चोपमानं, हंसस्य तु पाण्डुपद्मं इन्दुश्च । पाणितलस्य रक्तत्वात् हंसस्य श्वेतत्वादियमुपमा । ततो गृहीतः सन् एष - हंसः विस्पष्टवर्णविशेषं - व्यक्ताक्षररचनं यथास्यात्तथा राजानं नलमुप श्लोकयाञ्चकार - श्लोकैरुपस्तौति स्म । उपश्लोकयाञ्चकारेति “सत्यापपाशरूपवीणातूल श्लोकसेनालोमत्वचवर्म्मवर्णचूर्णचुरादिभ्यो णिच्” [पा०सू० ३।१।२५] । किम्भूतः सन् ? मृदु यथा भवति तथा वाद्यमाना:- शब्दं कार्यमाणाः 'रौप्या: १' २रूप्यस्य विकारो रौप्यी कृते समासे पूर्वस्य पुंवद्भावे रौप्यघनघर्घरीति १. रौप्य: अनू. । २. रूप्यस्य' प्रारब्ध 'हेममुद्रिकावत्' पाठो नास्ति । For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy