________________
प्रथम उच्छ्वासः
९९
विभाव्यते-ज्ञायते । परवशांगत्वे हेतुमाह- कथम्भूतस्य अस्य ? हृद्यानि - मनोज्ञानि यानि उद्यानानि तेषां सम्बन्धी यो मरुत् - वायुस्तेन तरङ्गिता - उत्कल्लोलीकृता या सरित्तस्यास्तीरे - तटे तरूणां-शाखिनामध:-अधोभागे अनल्पानि - बहूनि यानि सरोजिनी वनदलानि-पद्मिनीखण्डपत्राणि तेषां प्राय: - बाहुल्यं विद्यते यस्मिंस्तत्तथाविधेऽपि तल्पे - शय्यायां खिन्नःखेदापन्न आत्मा-शरीरं यस्य स तस्य । तत्र शयितोऽपि न रतिं लभत इत्यर्थः । अन्यस्याऽपि यस्य कस्यचिदङ्गे अग्निर्लग्नो भवति, स किल ईदृग्विधे शीतले प्रदेशे गत्वा शेते, तथाऽस्यापि मनसि कामाग्निर्लग्न इति सम्भाव्यते । हृदयस्य बन्धनं हृद्यम् ॥६३॥
एवमस्य
पुनरपि तदभिज्ञान्पृच्छतः पान्थसार्थान्, प्रतिपथमथ यूनो यान्ति तस्य क्रमेण । हरचरणसरोजद्वन्द्वमुद्राङ्कमौलेर्मदनमदनिवासा वासराः प्रावृषेण्याः ||६४ ॥
एवं अमुना प्रकारेण अस्य नलस्य - अथेति - उच्छ्वास प्रान्ते मङ्गलार्थ:, अनन्तरं वा । पुनरपि । भूयोऽपि तां - दमयन्तीमभिजानन्तीति तदभिज्ञास्तान्, पान्थसार्थान्पथिकसमूहान् प्रतिपथं- मार्गं मार्गं प्रति दमयन्तीवार्त्ताभित्याह्रियते द्विकर्मकत्वात् पृच्छे:पृच्छतस्तस्य-नलस्य यूनः क्रमेण परिपाट्या प्रावृषेण्याः प्रावृषिका वर्षाकालीना वासरा:दिनानि यान्ति-गच्छन्ति, प्रावृषि वर्षर्तौ भवः प्रावृषेण्या: २ । “प्रावृष एण्य" [पा० सू० ४।३।१८] इति एण्यप्रत्ययः । किम्भूतस्य तस्य ? हरस्य - शम्भोर्यच्चरणसरोजद्वन्द्वं तस्य या मुद्रा - प्रतिबिम्बं सैवाङ्कः - लक्ष्म स मौलौ - किरीटे यस्य स तस्य शम्भुपादपद्मद्वयप्रतिमाङ्कितत्वात् किरीटस्य रे । किम्भूता वासराः ? मदनस्य - कन्दर्पस्य यो मदः - दर्पस्तस्य निवासा:-आवासास्तदुद्दीपकत्वात् तद्दिवसानाम् । मालिनीवृत्तम् ||६४||
इति १श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां प्रथम उच्छ्वासः समाप्तः ३ I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org