________________
दमयन्ती-कथा-चम्पू: सापीति । हे महानुभाव ! यथा त्वमिदानीं मामिह प्रदेशे अद्भुतं पृच्छसि तथा साऽपि बालिका अर्धपथे-अर्धमार्गे मिलितं कञ्चित् अज्ञातज्ञातिनामानं उदीचीनंउत्तरदिक्सम्भूतं ततः समायातं वा उदीच्यं पथिकं दक्षिणस्यां दिशि प्रस्थितं-गन्तुं प्रवृत्तं संतं आदरेण साभिलाषं पृच्छन्ती मुहूर्तमिव । अत्र इव शब्दः शोभावाची, मुहूर्तमेकं तत्रैवन्यग्रोधतले विश्रमितुं-खेदमपनेतुमारभत-यत्नमकरोत् ।
च-पुनर्मयाऽपि तत्रैवावस्थितेन सता तेन-उदीच्यपथिकेन तस्याः-बालिकाया पुरः कस्यचित्-अज्ञातनामधेयस्य उदीच्यनरपतेः श्लाघ्यमानस्य-गुणैः स्तूयमानस्य अयंवक्ष्यमाणः कथायाः शेषः-प्रान्त्य आलाप:-वाग्विशेषः१ कथाशेषालाप श्रुतः । अन्यस्यां वार्तायामवधानं मया न दत्तं किन्तु कथासमाप्तौ पथिकोक्तमिदं वाक्यं श्रुतम् ।
तस्मिन् स्मितभुखे यूनि यूपदीर्घभुजद्वये । ते धन्या न्यपतन्येषां कन्दर्पसदृशे दृशः ॥५९॥
किम्बहुना !
तस्मिन्निति । वृत्तम् । तस्मिन्-पूर्ववर्णितस्वरूपे भूपे यूनि-तरुणे येषां पुरुषाणां दृशः-नेत्राणि न्यपतन्-निपेतुः तं युवानमद्राक्षुरित्यर्थः । ते धन्याः-पुण्यवन्तः । यदनेकार्थः-"धन्यः पुण्ययुते" [२।३७१] इति । किम्भूते तस्मिन् ? स्मितं-ईषद्हास्योपेतं मुखं यस्य स तस्मिन् । पुनः किम्भूते ? यूपवद्-युगवद्दीर्घ-आयतं भुजद्वयं यस्य स तस्मिन् । पुनः किम्भूते ? कन्दर्पण सदृशः-समस्तस्मिन् ॥५९॥
किम्बहुना-किम्बहूक्त्या !
सा त्वं मन्मथमञ्जरी स य चुवा भृङ्गस्तवैवोचितः, श्लाघ्यं तद्भवतो किमन्यदपरं किंत्वेतदाशास्महे । भाग्यैर्योग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः, श्रेयानस्तु विधेर्विचित्ररचनासंकल्पशिल्पश्रमः ॥६०॥
सा त्वमिति । शार्दूलविक्रीडितवृत्तम् । हे कुमारि ! सा त्वं मन्मथस्य मञ्जरीवल्लरिर्मन्मथमञ्जरी, स च युवाभृङ्गस्तवैवोचितः-योग्यः । मञ्जरी किल भृङ्गस्यैवोचिता',
१. वाग्विलास: अनू० । २-२. वार्तायां मयाऽवधानं अनू० । ३. कथा नास्ति अनू० । ४. योग्या अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org