SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ९० दमयन्ती - कथा - चम्पूः श्यामाभ्भोजसदृक्षपक्ष्मलचलन्ननेत्रामिमां पश्यतो, धातस्तात करोषि किं न वदने चक्षुः सहस्रं मम ॥५६॥ अपि च किं लक्ष्मीरिति । शार्दूलविक्रीडितवृत्तम् । मुररिपोर्देवस्य - विष्णोः वक्षःस्थलात्उर:स्थलात् किं स्वयं लक्ष्मीरागता ? उत - अथवा भवानीदेवी - गौरी पत्युः - शम्भोरुपरि कोपात्-प्रणयकलहात् भुवि - धरायामवतारमकरोद्-अवतीर्णा ? मर्त्यलोके एतादृग्विशिष्टरूपस्यासम्भवादियं कल्पना । इमां - भूपालपुत्रिकां पश्यतः - अवलोकयतो मम वदने ताि कोमलामन्त्रणे हे तात ! हे धातः ! ब्रह्मन् ! चक्षुः सहस्रं किं न करोषि - किं न विधत्से ? लोचनद्वयमात्रेण एतद्दर्शनातृप्त्या धातारं लोचनसहस्रं याचितवान्, बहूनि यदि नेत्राणि भवन्ति तदा सम्यगेतामवलोकयामीति । अनेनावलोकनीयरम्यरूपाद्याधिक्यं द्योतितम् । किम्भूतामिमाम् ? श्यामाम्भोजसदृक्षे - नीलाब्जसमाने पक्ष्मले - रोमवती चलती-विलासं कुर्वती नेत्रे यस्याः सा तथाविधाम् । पक्ष्माणि रोमाणि यस्मिंस्तत्पक्ष्मलं “सिध्मादित्वाल्लः " [पा० सू० ५२९८] ॥५६॥ इन्दोः सौन्दर्यमास्यं कलयति कमलस्पर्धिनी नेत्रपत्रे, कालिन्द्याः कुन्तलाली तुलयति विभवं भव्यभङ्गैस्तरङ्गैः । तस्याः किं श्लाघ्यतेऽन्यत्सुभगगुणनिधेः काप्यपूर्वैव यस्याः, पुष्पेषोवैजयन्ती जयति युवजनोन्मादिनी यौवनश्रीः ॥५७॥ अपि च इन्दोरिति । स्रग्धरावृत्तम् । हे नृप ! तस्याः सुभगगुणनिधे:-मनोहारिरूपादिगुणनिधानरूपाया राजपुत्र्या अन्यत् - अपरं किं श्लाघ्यते किं वर्ण्यते ? यस्या:भूपालपुत्रिकायाः आस्यं वक्त्रं इन्दो:- चन्द्रस्य सौन्दर्यं - रामणीयकं कलयति-वहति । तथा यस्या नेत्रपत्रे कमलं स्पर्धेते ? अनुकुरुत इत्येवंशीले ये ते कमलस्पर्द्धिनी । तथा यस्याः कुन्तलाली-केशकलापः कालिन्द्या: - यमुनाया भव्या भङ्गाः - लघुगुरुत्वादिकृता विच्छित्तयो येषु ते तथाविधैस्तरङ्गैः - कल्लोलैः सम्भूतमित्यध्याह्रियते, विभवं - विलासं तुलयतिविडम्बयति तत्साम्यं प्राप्तोतीत्यर्थः । यथा तरङ्गेषु वक्रत्वं तथा तदलकेष्वपीति, यद्वेत्थं योजना कार्या- यस्याः कुन्तलाली कालिन्द्या विभवं तुलयति । किम्भूतायाः, भव्यभङ्गैस्तरङ्गैरुपलक्षितायाः तुलां रोपयति - तुलयति । तथा यस्या: कापि वक्तुमशक्या अपूर्वैव For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy