SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रथम उछासः यस्मिंस्त्यागमहोत्सवव्यसनिभिर्धन्यैरशून्या जनैरुद्देशाः स्पृहणीयभावभरिताः कं नोत्सुकं कुर्वते ॥५४॥ अस्तीति । शार्दूलविक्रीडितवृत्तम् । दक्षिणदिङ मुखस्य-अपाचीककुब्वक्त्रस्य तिलक:-विशेषकोपम: देशः अस्ति-वर्तते । किम्भूतो देशः ? स्वर्गेण सम:-तुल्यस्तद्वद् वृद्धिसम्पन्नत्वात् । तथा समस्तजगतां-समस्तप्राणिनां सेव्यत्वस्य-आश्रयणीयत्वस्य या संख्या-गणना तस्यां अग्रणी:-मुख्यः । सकललोकस्यापि अयं देशः सेव्यः । अयं देशः सेव्य इति संख्यायां क्रियमाणायां अयं देशोऽतिशायिभोगाधिकरणत्वात् सेव्यत्वे मुख्यतां लभते, अतिशयेन सेव्य इत्यर्थः । तथा स्त्रियश्च पुमांसश्च स्त्रीपुंसा “अचतुर" [पा० सू० ५।४७७] इत्यादिना अजन्तो निपात्यते । त एव रत्नानि उत्कृष्टत्वात् तेषामाकरः-खानिः; दक्षिणस्यां दक्षिणाः स्त्रियः पुमांसश्च प्राप्यन्ते । यस्मिन्देशे स्पृहणीया-अभिलषणीया ये भावा:-पदार्थास्तैर्भरिता:-पूर्णा उद्देशाः-भूभागा: कं-पुरुषं सचेतनं नोत्सुकं-नोत्कण्ठुलं कुर्वते, अपितु-सर्वमपि तद्देशावस्थानाय उत्कण्ठितं कुर्वन्तीत्यर्थः । किम्भूता उद्देशाः ? त्यागे-दाने महोत्सवे-इन्द्रमहादिके व्यसनं-आसक्तिविद्यन्ते येषां ते त्यागमहोत्सवव्यसनिनस्तैर्धन्यैः-धनार्जनैः-लोकैरशून्या-अरिक्ता भृता इत्यर्थः ॥५४।। कथं चासौ' न प्रशस्यते । यत्र त्रिपुरपुरन्ध्रिरोध्रतिलकहारिणा हरिविरिञ्चिचूडामणिमरीचिचक्रचकोरचुम्बितचरणनखचन्द्ररुचिनिचयेन भगवता'सेव्यते सेव्यतया३ऽपहसितकैलासश्री: श्रीशैलः शूलपाणिना । यत्र च विकचविविधवनविहारसुरभिसमीरणान्दोलितकदलीदलव्यजनवीज्यमाननिधुवनविनोदखेदविद्राणनिद्रालुद्रविडमिथुनसनाथपरिसराः सरसघननिचुलतलचलच्चकोरचक्रवाककुलकपिञ्जलमयूरहारीत हारिण्यो नाकलोककमनीयतां कलयन्ति कलमकेदारसाराः सरससहकारकारस्कराः काबेरीतीरभूमयः । किम्बहुनाच-पुन, असौ देशः कथं न प्रशस्यते ?-कथं न स्तूयते ? यत्र देशे भगवता-शूलपाणिना-ईश्वरेण श्रीशैल:-श्रीशैलाभिधानो गिरिः सेव्यते, यत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy