________________
दमयन्ती-कथा-चम्पूः तीर्थयात्रैव पुण्यक्षेत्रगमनमेव प्रयोजनं यस्यासौ तीर्थयात्रिकस्तस्य सम्बुद्धौ भो तीर्थयात्रिक ! तीर्थगामिन् ! त्वं कुतः-कस्माद्देशात् प्रष्टव्योऽसि-कस्माद्देशाद् भवतः आगमनं जातमित्यर्थः । तीर्थयात्रिकेति, प्रयोजनं तदस्येति "प्रयोजन" [पा० सू० ५।१।१०९] इत्यर्थे प्रथमान्तात् ठञ् । च-पुनः क्व-कस्मिस्तीर्थे त्वया गन्तव्यम् ? अद्यापि कियद्वा गन्तव्यं ? कियतीभूरद्याप्याक्रमणीया वर्तत इति । उपविश-मुहूर्तमेकं निषीद । विश्रम्य-मार्गातिक्रमणजन्यखेदमपनीय काञ्चित् अपूविकां-अपूर्वैव अपूविकां तां किम्वदन्ती-वार्ता कथयवद । किञ्च, पुनः किलेति सम्भाव्यते, अनेकान्-बहून् देशान् दृष्टवन्त इति अनेकदेशदृश्वान:-पथिकाः आश्चर्य-अद्भुतं पश्यन्त्यवश्यमिति आश्चर्यदर्शिनो भवन्ति । दृश्वा इति "दृशेः क्वनिब्" [पा० सू० ३।२।९४] इति भूते दृशेः क्वनिबेव स्यात् । न च वार्ताभिधाने भवता इति वक्ष्यमाणमेकमप्याशङ्कनीयं-विचार्यम् । इतीति किम् ? आकस्मिकं अकस्माद्भवं "अध्यात्मादित्वाद् ठञ्" [पा० सू० ४।३।७०-वा०] दर्शनंअवलोकनं जातम् । तथा अपूर्वो नव एव परिचयः-सम्बन्धो जातः । अथ च स्वल्पा प्रीति:-प्रेम जाता । अतः कथं वार्तां वच्मीति न विकल्पनीयम् । यतः-अपूर्वदर्शनेऽपिअभिनवालोकनेऽपि जात्या मणयः-विशिष्टजातीयरत्नानि स्वां स्वच्छतां-निर्मलतां न अपहृवते-अपलपन्ति न । मणयो अपूर्वमेवास्य दर्शनमभूदतः कथमस्य स्वीयस्वच्छतां दर्शयाम इति विकल्पयन्ति । तथा भवताऽपि वार्ताकथने अपूर्वदर्शनाद्याशङ्का न विधेयेत्यर्थः । तत्तस्माद्धेतो: एहि-आगच्छ । मुहूर्तं यावदेकत्र-एकस्मिन् प्रदेशे स्थित्वा आवां गोष्ठीमिलितयोः परस्परं रहस्यकथनरूप: संलापस्तस्याः सुखं-सौख्यं अनुभवाव:आस्वादयावः । इति उक्तप्रकारेण एनं-अध्वगं अवादीत् ।
असावपि-अध्वगोऽपि अपूर्वायाः-अद्भुतायाः कौतुककथाया आकर्णने-श्रवणे रसः-विद्यते यस्याऽसौ तत्सम्बुद्धौ हे अपूर्वकौतुककथा[कर्णन]रसिक ! यदि चेत् एवं नव्यवार्ताश्रवणे त्वदीया मनीषा विद्यते तर्हि श्रूयतामिति अभिधाय-उक्त्वा सुखेन उपविष्टस्य-निषण्णस्य अस्य-नलस्य समीपे स्वयमात्मना उपविश्य कथयितुमारभत-वक्तुं यतते स्म ।
अथ दमयन्तीवर्णनां कर्तुकामस्तन्निवासपवित्रितं देशवर्णनां तावदाहअस्ति स्वर्गसमः समस्तजगतां सेव्यत्वसंख्याग्रणीर्देशो दक्षिणदिङ मुखस्य तिलकः स्त्रीपुंसरत्नाकरः ।
१. 'जन्य' नास्ति अनू० । २. तां अपूर्विकां अनू० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org