SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीनेमादित्यसूनुमहाकविश्रीत्रिविक्रमभट्टप्रणीता दमयन्ती-कथा-चम्पूः महोपाध्यायश्रीगुणविनयगणिग्रथिता 'सारस्वती' विवृत्युपेता प्रथम उच्छ्वासः [ वृत्तिकृन्मङ्गलाचरणम् ] ध्यात्वा सरस्वती देवीं विबुधानन्ददायिनीम् । सुवर्णां पुण्यरूपां तामलङ्कारविराजिताम्* ॥१॥ पादाब्जाङ्गुलिसत्कनिर्मलनखादर्शेषु लोकत्रयी, निश्शेषाप्रतिबिम्बितान्तरमुदा यस्या नमन्ती प्रभोः । अप्राप्तापरभागसंसृतिभयाल्लीनेव दीना सती, तं पार्श्व फलवद्धिकेश्वरमहं नत्वोपसर्गापहम् ॥२॥ ★ अर्थ:- सरस्वतीदेवीं वाणी नदीं च । देवीपक्षे-विबुधाः-देवास्तेषामानन्ददायिनी, वा विबुधाः-पण्डितास्तेषामानन्ददायिनीम् । नदीपक्षे–विषु बुधा हंसास्तेषामानन्ददायिनीम् । देवीपक्षेशोभनो वर्ण:-शरीरच्छविर्यस्याः सा तां, वा शोभनाक्षराम् । नदीपक्षे–शोभनाश्च तवर्णाम् । देवीपक्षेपुण्यं रूपमाकारो यस्यास्ताम् । वाणी-पुण्यानि रूपाणि च्छन्दोग्रन्थप्रसिद्धानि यस्यां सा० । नदीपक्षेशुचिस्वरूपां आर्यजनपदेषु भूमेरुपरिवहनात् म्लेच्छजनपदेषु च भूम्यन्तर्वहनात् । देवीपक्षे–अलङ्काराःसौवर्णभूषणानि तैर्विराजिताम्, वा अलङ्काराः-शब्दार्थालङ्कारा अलङ्कारग्रन्थप्रतीतास्तैः । नदीपक्षे–अलंअत्यर्थं कस्य-जलस्य आरः-प्राप्ति: तेन विराजिताम् ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy