SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ OYOX अन्तर्वर्षा सुनिश्चितमेवैतद् यदुतेह जगति सुखलेशोऽपि नास्ति, यत्किञ्चिदस्ति तदाभासात्मकमेव, मृगमरीचिकाजलोपमम्, शाश्वतसुखास्थानं पुनः मोक्ष एव । तदवाप्तये परमात्मवीतरागप्ररूपितो जिनधर्म एवेह जगति उपायः । श्रीजिनप्ररूपितजैनधर्ममध्ये तु निरस्तेसमस्तमिथ्यासिद्धान्तौघं कष - छेद - तापपरीक्षोत्तीर्णं स्याद्वादमतं शेखरायमाणमस्ति || विद्वन्मतल्लिकायमान- महोपाध्याय श्रीयशोविजयप्रवरैः जैनदर्शनमहाप्रासादंप्रवेशद्वारतुल्य सप्तभङ्गीनयप्रदीपरूपग्रंथरलं निरमायि, तच्चाध्येतृणां वरदानतुल्यं समजायत । मच्छिष्यमुनियशरत्नविजयेनैतद्ग्रन्थोपरि गुर्जरभाषायामनुवादस्य रचना कृता, एषा रचना जैनन्यायप्रवेशकानां शर्करास्वादतुल्या भविष्यति । अत्र न केवलं शब्दानुवादो न वा भावानुवादमात्रम्, अपि तु ग्रन्थकृतामाशयानुवादकरणप्रयासः । तस्मात् सर्वेषामपि एषा कृतिरवश्यं वल्लभा भविष्यतीत्यत्र न संशयावकाशः । दार्शनिकग्रन्थानां मध्ये भूमिकातुल्य एष ग्रन्थः स्वैरविहारप्रोत्साहकः, अस्य सुन्दरप्रकाशनिकया मुनियशरत्नविजयेन उत्तमा श्रुतभक्तिरादरिता । अस्त्यत्रास्माकं सुमहती आशीर्वृष्टिः । Jain Education International 6 लि. आचार्यविजयगुणरत्नसूरीश्वराः आचार्यविजयरश्मिरत्नसूरीश्वराः For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy