________________
44. तदादीनि भाज्यानि युगपदेकस्याचतुर्थ्यः । 45. निरुपभोगमन्त्यम्। 46. गर्भसम्मूर्च्छनजमाद्यम्। 47. वैक्रियमौपपातिकम्। 48. लब्धिप्रत्ययं च। 49. शुभं विशुद्धमव्याघाति चाहारकं ___ चतुर्दशपूर्वधरस्यैव। 50. नारकसम्मूर्छिनो नपुंसकानि। 51. न देवाः। 52. औपपातिक-चरमदेहोत्तमपुरुषाs
संख्येयवर्षायुषोऽनपवा -युषः।
13. पृथिव्यम्बुवनस्तपयः स्थावराः। 14. तेजोवायूद्वीन्द्रियादयश्च त्रसाः। 15. पंचेन्द्रियाणि। 16. द्विविधानि। 17. निर्वृत्युपकरणे द्रव्येन्द्रियम्। 18. लब्ध्युपयोगौ भावेन्द्रियम्। 17. उपयोगः स्पर्शादिषु। 20. स्पर्शनरसनघ्राण-चक्षुः श्रोत्राणि। 21. स्पर्श-रस-गन्ध-वर्ण-शब्दास्ते-षामर्थाः। 22. श्रुतमनिन्द्रियस्य। 23. वाय्वन्तानामेकम्। 24. कृमि-पिपीलिकाभ्रमर-मनुष्यादी नामेकैक
वृद्धानि। 25. संज्ञिनः समनस्काः । 26. विग्रहगतौ कर्मयोगः। 27. अनुश्रेणिगतिः 28. अविग्रहा जीवस्य। 29. विग्रहवती च संसारिणः प्राक् चतुर्व्यः । 30. एक-समयोऽविग्रहः। 31. एकं द्वौ वाऽनाहारकः। 32. सम्मूर्छनगर्भोपपाता जन्म। 33. सचित्त-शीत-संवृत्ताः सेतरा
मिश्राश्चैकशस्तद्योनयः। 34. जरा-स्वण्डपोतजानां गर्भः। 35. नारकदेवानामुपपातः। 36. शेषाणां सम्मूर्छनम्। 37.औदारिकवैक्रिया-ssहारकतैज
सकार्मणानि शरीराणि| 38. परं परं सूक्ष्मम्। 39. प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात्। 40. अनन्तगुणे परे। 41. अप्रतिघाते। 42. अनादिसम्बन्धे च। 43. सर्वस्य !
तृतीयोऽध्यायः 1. रत्नशर्करावालुकापंकधूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः
पृथुतराः 2. तासु नरकाः। 3. नित्याशुभतरलेश्या-परिणाम-देहवेदना
विक्रियाः। 4. परस्परोदीरितिर दुःखा। 5. संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः। 6. तेष्वेक-त्रि-सप्त-दशसप्तदश-द्वाविंशति __त्रयस्त्रिंशत्-सागरोपमा सत्त्वानां परा स्थितिः। 7. जम्बूद्वीपलवणादयः शुभनामानोद्वीप समुद्राः। 8. द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो _ वलयाकृतयः। 9. तन्मध्ये मेरुनाभिर्वृत्तो योजन-शत
सहसविष्कम्भो जम्बूद्वीपः। 10. तत्र भरतहैमवत हरिविदेहरम्यक् हैरण्यव
तैरावत वर्षाः क्षेत्राणि। 11. तद्विभाजिनः पूर्वपरायता हिम-वन्महा
हिमवनिषधनीलरुक्मिशिखरिणो वर्ष धरपर्वताः।