________________
अज्ञातकर्तृकम् • २३५ स्वाऽमात्यपुत्राय सुता, दीयते देव ! चेत् तदा । पितरस्तर्पिता यान्ति, सहकाराश्च सञ्चिताः ॥३१॥ सूक्तियुक्तं स्वकान्ताया, वाक्यं श्रुत्वा व्यचिन्तयत् । इष्टं वैद्योपदिष्टं मे, सञ्जातं साम्प्रतं किल ॥३२॥ सभायां द्रुतमागत्य, हर्षोत्कर्षेण पूरितः । सचिवेशं समाहूय, नृपः प्रोवाच वाचिकम् ॥३३॥ स्वसुतां त्वत्सुतायाऽहं, दास्ये प्रतिप्रवर्द्धये । अङ्गीकुरु त्वमप्येतां, यथैव जायतेऽधुना ॥३४॥ खण्डाक्षेपं यथा क्षीरे, शर्करामर्दनं गुडे । दीर्घत्वे दीर्घता नूनं प्रीतौ प्रीतिः प्रवर्द्धते ॥३५।। तदद्भूतं वचः श्रुत्वा, प्रोवाच सचिवेश्वरः । अविमृष्टं कथं देवो, ममाऽदिशति साम्प्रतम् ? ॥३६।। क्व खद्योतः ? क्व चण्डांशुः ?, क्व मेरुः ? क्व च सर्षपः ? । क्व शेषाहि:? क्वाऽलसकं?, क्व स्वामी ? क्व च मादृशः ? ॥३७॥ अन्यदास्तां नृनाथेश !, कः समर्थस्तवाधुना ? । धान्येषु लवणं क्षेप्तुं, चूर्णं पत्रेषु योजितुम् ॥३८॥ पुनर्बभाषे भूपालो, बालोऽसि सचिवेश्वर ! । सप्ताङ्गं सकलं राज्यं, तवैव मम वर्त्तते ।।३९।। सचिवोऽचिन्तयच्चित्ते, यदशस्त्रवधः स्मृतः । आज्ञाभङ्गो नरेन्द्राणां, वृत्तिच्छेदो द्विजन्मनाम् ।।४०।। एकतस्तनयः कुष्टी, नृपादेशोऽन्यतो बली । एकतो व्याघ्रासम्पातो, दुस्तटी हि द्वितीयतः ॥४१।।
Asxas
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org