________________
२३४ • मङ्गलकलशकथानकम् ताताहमेव मलयात् पुष्पपत्रफलादिकम् । आनेष्ये पूज्यपादैस्तु पूजा कार्या जिनेशितुः ॥२०॥ भक्तियुक्तं तु तद्वाक्यं, श्रुत्वा ज्ञात्वा तदाऽऽग्रहम् । उद्यानपालकं प्राह, श्रेष्टी शिष्टाशयस्तदा ॥२१॥ मम सूनोस्त्वया देयं, पुष्पोपकरणादिकम् । सहागत्य विमोक्तव्यः, सारा कार्या प्रयत्नतः ॥२२॥ प्रीतचेताः प्रयात्येष, सुमान्यानेतुमन्वहम् । मङ्गलो जननी स्नेहवल्लीविश्रामभूरुहः ।।२३।। इतश्च भरतक्षेत्रे, चम्पेति प्रथिता पुरी । भूपोऽभूत् तत्र, रूपेण सुन्दरो गुणसुन्दरः ॥२४॥ प्रियायां गुणसुन्दरीं, तस्य त्रैलोक्यसुन्दरी । सञ्जाता सर्वलावण्यतरोः सौभाग्यमञ्जरी ॥२५।। तां प्राप्तयौवनां प्रेक्ष्य, भूपो रूपेण सुन्दराम् । राज्ञी रहसि पप्रच्छ, को योग्योऽस्या वरो वर: ? ॥२६।। वैडूर्यपत्रिका स्वर्णे, क्रमुके नागवल्लीका । चन्द्रे ज्योत्स्ना यथा शस्या, तथा कन्या शुभे वरे ॥२७॥ नरेश्वर-वचः श्रुत्वा प्रीता प्रोवाच वल्लभा । त्वयि शिक्षा प्रदानं यः, सर्वं ज्ञेयं तदीदृशम् ॥२८॥ भारत्या लेखशालेयमाने तोरणबन्धनम् । मातुः पुरो मातृकुलं, लङ्काया लहरीयकम् ।।२९।। तथापि वल्लभाऽत्यन्तं, सुता देशान्तरे यदि । दीयते दुस्सहस्तस्या, आवयोविरहस्तदा ॥३०॥
Disea
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org