________________
१६० • मङ्गलकलशकथानकम् नैषेधिकीत्रयपुरस्सरमात्मनैव
दक्षः प्रदक्षिणविधिं त्रिविधं विधाय ।।५५।। पूजां त्रिधापि विरचय्य विचित्रभक्ति
भूमिप्रार्जनमपि त्रिविधं प्रकुर्वन् । तिस्रो वितत्य विनयी प्रणतीर्नयज्ञो
ऽवस्थात्रयं निजमनो विषयं वितन्वन् ।।५६।। आशात्रयेक्षणविवर्जनमादधानो
विन्यस्तदृष्टियुगलो जिनराजबिम्बे । वर्णादिकत्रितयभावनया प्रसक्तो
मुद्रात्रयं प्रकटयन् प्रतिपत्तिपूर्वम् ॥५७|| अत्युत्तमप्रणिहितत्रितयप्रणेता ।
देवानवदन्त जिनाधिपतीन् सुचेताः । कस्यानवद्यतमतां न सतां क्रमोऽयं
संपादयत्यविरतं हि विधीयमानः ।।५८।। चैत्यालयादथ निरीय सवेगमिभ्यो
वव्राज धामवसतिर्वसतिं गुरूणाम् । तत्र प्रणम्य गुरुपादपयोजयुग्मं
साधून् यथाक्रममवन्दत वन्द्यवन्द्यान् ।।५९।। व्याख्यां निशम्य समभावविधानधुर्या___माचार्यवर्यसुगुरोरमृतायमानाम् । कार्यः स्फुरन्सुकृतबुद्धिभिरेषणीया
हारग्रहाय भगवद्भिरनुग्रहो मे ॥६०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org