________________
११६
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः इति। तच्चैते अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ।
ननु इह लवर्णस्य स्वरसंज्ञायां किं प्रयोजनम् ? लकारः कृ पू सामर्थ्य' इत्यस्मिन् धातो एव प्रयुज्यते । कृपोरोलः [ भ्वादि.आत्मने. २० ] कृपेर्धातो: रेफस्य लकारादेशो भवति र इति । रश्रुतिसामान्यम् उपादीयते । तेन यः केवलो रेफो यश्च ऋकारस्थः तयोरपि ग्रहणं ल इत्यपि सामान्यमेव उपादीयते। ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते। इत्यनेन ऋकारस्यापि एकदेशविकारद्वारेण लकारकरणादेव प्रयोगो दृश्यते, न च तत्र स्वरसंज्ञायाः किमपि प्रयोजनं विद्यते । दीर्घस्य लकारस्य तु सर्वथा प्रयोग एव नास्तीति।
___मैवम्, यदशक्ति यदसाधु तदनुकरणस्यापि साधुत्वमिष्यते। यथा- 'अहो ऋतक' इति प्रयोक्तव्ये शक्तिवैकल्यात् । कश्चित् 'अहो तृतक' इति प्रयुक्तवान्। तदा तत्समीपवर्ती किमयम् आह इति अपरेण केनाऽपि पृष्ट सन् तमनुकुर्वन् 'अहो तृतक' इत्याह - इति कथयति।
अथ च लकारस्य स्वरसंज्ञया 'ओत् [पाणिनि. १.१.१५] इति प्रक्रियासूत्रेण, औ निपातः'[ प्रकृतिभाव० ३.] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् क्लृप्त इत्यत्र अनचि च [पाणिनि. ८.४.४७] इति प्रक्रियासूत्रेण, हसेऽर्हहसः [स्वरसंधिः २] इति सारस्वतसूत्रेण वा लस्वरात् परस्य पकारस्य द्वित्वभावनात्। क्लृप्तशिख' इत्यत्र दूराद्हूते चेति गुरोरनृतोऽनन्तस्या-प्यैकैकस्य प्राचाम् [ पाणिनि. ८.२.८६] इति पाणिनीयसूत्रेण स्वराश्रितस्य प्लुतस्य प्रतिपादनाच्च लकारस्य स्वरसंज्ञायां प्रयोजनं विद्यते एव। शर्ववर्मणस्तु मते अकारादीनामिव लवर्णस्यापि स्वरसंज्ञया मुख्यमेवं प्रयोजनं विद्यते। यथा- अमू लकारं पश्यतः, अमी कारं पश्यन्तीति उभयत्राऽत्र अदसोमात् [ पाणिनि. १.१.१२.] इति प्रक्रियासूत्रेण, नामी [ सा. प्रकृतिभाव. १.] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् लकारस्य स्वरसंज्ञाप्रयोजनसद्भावः सिद्धः। _ 'लवर्णो न दीर्घोऽस्ति' इति यद् रामचन्द्रो अवोचत्, तदपि तदिच्छया तस्यैव स्वतः प्रमाणं न परतः' इति ।
तथा च कालापकव्याकरणसूत्रं, तत्र, चतुर्दशादौ स्वराः [ ] तथा च एतट्टीका- तत्र तस्मिन् वर्णसमाम्नायविषये आदौ ये चतुर्दशवर्णास्ते १. 'व्याकरण' नास्ति कै.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org